पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९० भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- थैनापेक्ष्यते तस्य प्रकृतावर्थसिद्धत्वेनाशास्त्रीयत्वादिति । एवं निर्गुणत्वस्याविहितत्वेन विकृतस्तदपेक्षा नास्तीति । तस्मादुभयाकाङ्क्षाया असम्भवात पृषदा- ज्यस्य न प्रकरणविनियोगः सम्भवतीत्यलमतिवि. स्तरेण । तत्सिद्धं महाप्रकरणं प्रकृतावेव विनियो. जकम् । विकृतौ तु यत् प्राकृतदृष्टार्थाङ्गानुवादेन वि- धीयते तस्य विनियोजकं न तु केवलं विधीयमा- नस्यापूर्वाङ्गस्येति । यत्तु विकृतावपि प्राकृतधर्मानुवादेन वि- धीयमानयोधर्मयोरन्तराले ऽपूर्वमष्यङ्गं केवलं पठ्यते तदपि प्रकरणेन विनियुज्यते । यद्यपि विकृतेः कथम्भावाकाङ्क्षा प्राकृतैखाङ्गैः शाम्यति, तथापि यत्र प्राकृताङ्गानुवादेन धर्मविधानं तत्र त- द्विधानं यावद्भवति तावत्कथम्भावाकाङ्क्षा न निव- र्तते । अतो विकृतेराकाङ्क्षावत्त्वादन्तराले विहितस्या- पूर्वाङ्गस्य भाव्याकाङ्क्षासत्त्वाद् युक्तं तस्य प्रकरणा- तिदेशस्य स्वबोध्यसाधनतानिर्वाहकपृषत्तान्वयात्मागपर्यवसा- नान्न तदन्वयात्पाक् प्रधानविधे राकाझ्यं सम्भवतीत्यत आह इत्यलमिति । एवं हि सर्वेषामपि प्राकृताङ्गानां वैकृतोपहोमा- दिनिरूपितक्रमसाहित्यादिसापेक्षतया प्राकृतोपकारसाधनत्वादु. करीत्योपहोमानामपि प्रकरणविनियोज्यत्वं स्यादित्याशयः । ।