पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पृषदाज्यविनियोगेप्रकरणस्थाप्रामाण्यम् । सम्भवति । यदि हि प्राकृतस्य कस्य चिद् गुणस्य स्थाने चित्रता गुणो विधीयेत तदा स गुणो यावदायाति तावद्धिकृतेनैराकाङ्ख्याभावात् चित्रता- गुणस्य च तावदेव विधानादुभयाकाङ्क्षासम्भवात् प्रकरणविनियोगो भवेत् । न च तादृशः प्रा- कृतो गुणोऽस्ति, आज्यस्यानुयाजानां च चित्र- तागुणात्प्रागेव विधानात्, तस्य तत्स्थानापन्नत्वा- भावात । न च आज्यपृष्ठभावन यावत् प्राकृते नि- गुणत्वमायाति तावदेवास्य विधानात्प्रकरणसम्भव इति वाच्यम् । निर्गुणत्वस्याविहितत्वेन पाणिक- ण्डूयनवदनङ्गत्वाद् विकृतेस्तदाकाङ्क्षाभावात । तथा हि-ज्योतिष्टोमे दक्षिणादानसमये विहि- तकृष्णविषाणात्यागस्य दिरात्रादिषु चोदकप्राप्तस्य प्रथमेऽह्नि अननुष्ठानम् । उत्तरेऽह्नि दक्षिणादान- पूर्वकालीनैः पदार्थैः कृष्णविषाणाकण्डूयनस्य शास्त्र- विहितत्वेनापेक्षितत्वात् । ज्योतिष्टोमे च दक्षिणा दानोत्तरकालं पाणिकण्डूयनं दृष्टमपि द्विरात्रादिषु प्रथमेऽह्नि अनुष्ठीयमानैर्दक्षिणादानोत्तरकालीनैः पदा- त्याशयः । निर्गुणत्वम् विहितद्रव्यान्तरसंसर्गराहित्यम् ननु प्रकृतौ पृषत्तानपेक्षानुयाजजन्यतया ऽवगतस्यापि कार्यस्य पशौ तत्सापेक्ष तज्जन्यत्वाङ्गीकरणात् प्राकृतकार्यसाधनतया ऽनुयाजान्मापयतो