पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८८ भाट्टालङ्कार सहितमीमांसान्यायप्रकाशे- पन्नम् । पृषच्छन्दस्य पृषन्मणिरित्यादौ चित्रतावाचित्वेन दृष्टत्वात् , पृषदाज्यशब्दस्य चित्राज्यवाचित्वात् । अत एव निगमेषु आज्यपानित्येव वक्तव्यं न पृषदाज्य- पानित्युक्तम् । न च यावत् प्राकृतमाज्यमायाति तावदेव चित्रा- ज्यविधानात् प्रकरणविनियोगः सम्भवति इति वा- च्यम् । न हि पृषदाज्यशब्देन चित्रतागुणविशिष्टमाज्यं विधीयते, विशिष्टविधाने गौरखापत्तेः, किं तु प्रा- कृताज्यानुवादेन चित्रतागुणमात्रं विधीयते, “लोहि- तोष्णीषा ऋत्विजः प्रचरन्ति इतिवत् । तदुक्तं दशमचतुर्थचरणान्ते-'न वा गणशास्त्र- त्वाद् इति । 'प्राकृतस्यैवाज्यस्य चित्रतागुणमात्रविधान- म् इति च शास्त्रदीपिका। एवं च विकृतेः प्राकृतेनाज्येन क्लप्तोपकार- श्वानुयाजौराकाक्ष्ये पश्चाद्विधीमायनस्य चित्रता- गुणस्योपहोमाद्यपूर्वाङ्गवन न प्रकरणं विनियोजक मृत्रे गुणशब्दस्य विशिष्टाज्यपरत्वमेव किं न स्यादिति शङ्काया पा. ख्यातृवचो विरोधमाह-प्राकृतस्येति । ननूपवनावेक्षणादिवि धिक्लात्तु द्रव्यान्तरासंसर्गस्य प्रकृतावाज्याङ्गत्वेनावगतस्येह द- घिसंसर्गे म बाधात्कथं नौदुम्बरतान्यायस्तत्राह यदिहीति । न झत्र खादिरताया औदुम्बरत येव द्रव्यान्तरासंसर्गस्येह दधि- संसर्गेण बाधः संभवति, दध्यन्यद्रव्यसंसर्गस्यावर्जनीयत्वापातादि-