पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पृषदाज्यविनियोगे प्रकरणस्थाप्रामाण्यम् । १८७ ति । अत एवोत्पवनादीनां प्रोक्षणाद्यपूर्वप्रयुक्तत्वमु- क्तं नवमे । अतश्च विधीयमानस्य पृषदाज्यस्य वा- क्यप्रतिपन्नेनानुयाजापूर्वेणैव नैराकाङ्ख्यात् न प्रकरणा- दिकृत्यपूर्वार्थत्वमिति । वयन्त्वङ्गीकृत्यापि विकृत्यर्थत्वं ब्रूमः । भवतु वा विकृत्यर्थत्वं पृषदाज्यस्य, तथाऽपि न प्रकरणं विनि- योजकं भवति । यूपपृष्ठभावेन हि यावत्खादिरत्वमाया- ति तावदौदुम्बरत्वविधानादुभयाकाङ्क्षासम्भवाद्युक्तः प्र- करणविनियोगः । एवं यावदनुयाजपृष्ठभावेन आज्य- मायाति तावदेव यदि पृषदाज्यं विधीयेत तदोभया- काङ्क्षासम्भवात्मकरणविनियोगो भवेत् । न खेतदस्ति । न हि पृषदाज्यं नाम द्रव्यान्तरं किञ्चिदस्ति यद् आज्य- स्थानापन्नं विधीयते, औदुम्बरत्वमिव खादिरत्वस्थाना- एवं च "पौर्वापर्ये पूर्वदौर्बल्यं प्रकृतिवद"(पू० मी० अ०६ पा०५ अ० १९ मू० ५४) इति न्यायविषये प्राप्तबाधव्यवहारोपपत्तिः । आह च भवदेवः-'प्राप्तशब्दोऽयं शास्त्रगोचर एव, न बाध्य- विषयगोचर इत्यवधातव्यम्' इति । ननु पृषदाज्यस्यानुयाजापूर्थित्वे यत्रतत्रस्थेनापि अनु. याजापूर्वेण तत् प्रयुज्येत, यथैव च लोके निर्मातप्रकार- मवघातं प्रत्यसंभवच्छेषत्वस्योलूखलपोक्षणादेः क्रत्वपूर्वसम्ब. न्धः कल्प्यः, तथा प्रकृती निर्मातप्रकारमनुयाजापूर्वादि प्रत्य- संभवच्छेषत्वाया पृषात्ताया अपि, अन्यथा ऽऽहवनीयोदेशविहितस्य संमार्गादेरपि क्रतुसम्बन्धो न सिध्येद् अत आह भवत्विति ।