पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८६ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- भ्रान्तिप्राप्ताः खादिरत्वादयः शास्त्रप्रतिपन्नरौदु- म्वरत्वादिभिर्बाध्यन्ते इति भवति तद्वाधः प्राप्तबाधः । न च भ्रान्तिप्रतिपन्नेन वैधी आकाङ्क्षा निवर्तयितुं शक्यते । तस्माद्युक्तमुक्तमुभयाकाङ्क्षारूपप्रकरणसम्भ- वाद्विकृतौ प्राकृताङ्गानुवादेन विधीयमानानामौदम्बर- त्वादीनां प्रकरणं विनियोजकमिति । एवं “पृषदाज्येनानुयाजान्यजति' इति प्राकृता- नुयाजानवादेन विधीयमानं पृषदाज्यमपि प्रकरणादिकृ- त्यङ्गमिति केचिदाचार्याः। अस्मत्तातचरणास्त्वेवमाहुः-पृषदाज्यं हि अनुया- जानुवादेन विधीयते । तत्स्वरूपे चानर्थक्यप्राप्तौ तैर्न विकृत्यपूर्व लक्षयितुं युक्तं विप्रकर्षात, किन्तु दीक्षणी- यावाड़ियमन्यायेन स्वापूर्वमेव लक्षयितुं युक्तं सन्निक- पक्षशास्त्रदर्शने सत्यसति वैषा प्राप्तिः ? । नायः । अनुभवविरोधा- व । नहि शरशास्त्रं पश्यतः कुशकर्तव्यताबोधो ऽतिदेशादुदेति । न द्वितीयः । श्रुतिमपश्यतो लिङ्गादपि भ्रान्तिसंभवेन श्रुत्या लिङ्ग- बाधस्यापि प्राप्तबाधापत्तेरिति चेत् । न । प्रतिपक्षं पश्यतो ऽपि पु- रुषस्य सर्वाङ्गसाधारणादातदेशात्तद्वत्कार्यमिति बोधस्य कुशकर्त- व्यताभ्रमोत्थापकस्य जन्ममात्रेण प्राप्तिव्यवहारोपपत्तेः । नच श्रुति पश्यतो लिङ्गात्तादृश्यपि प्राप्तिः शक्यते वक्तुम् । यद्वा शरशास्त्रद. भने ऽपि कुशांश बाधितस्यापि अतिदेशस्यावान्तरमाप्त्यर्थं सव- पभ्युपगम्यते, नाभ्युपगम्यते च विरोधिश्रुतिदर्शने ऽपि लैङ्गिकश्रुति- सत्त्वमिति बाध्यत्वाभिमतशास्त्रप्राप्त्यप्राप्तिभ्यां बाधवैचित्र्यम् ।