पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पासङ्गिकः प्राप्तवाधादिविचारः । एवेति कुलधर्मः । वस्तुतस्तु प्राप्तबाध एवायम् । न च “खादिरस्व- स्य चोदकाविषयत्वेन प्राप्त्यभावात् कथं तबाधः प्रा. प्सबाधः, तद्विषयत्वे वा तेनेव नैराकाङ्क्यानोदुम्बरत्व स्य प्रकरणं विनियोजकं स्यादिति वाच्यम् । न हि प्रा- तबाधस्थले चोदकेन पदार्थाः प्राप्यन्ते । तथा सति शास्त्रप्राप्तत्वेन बाधो न स्यात, किं तर्हि, तानेव प- दार्थान्वस्तुतः प्रापयति ये विकृतौ न बाध्यन्ते । ते च पदार्थाः प्रकृतिवच्छब्देन प्राप्यन्ते इति भवात पु. रुषस्य भ्रान्तिः-यथा प्रकृतौ कृतं तथा विकृतौ क- त्तव्यमिति सर्वे पदार्थाः प्राकृताः कर्त्तव्या इति । अतश्च तबाधत्वं कापि न स्यात्, वाधकवैकृतस्य सर्वत्र तातीयमानविनि- युक्तत्वादिति शङ्ख्यम् । यत्रैकत्रिकादो प्राकृतेनैव क्रमादिना पाठ. प्राप्तेनापि श्रुतिप्राप्तस्यापि त्रिच्छन्दस्त्वादेः प्राकृतस्य वाधो द- शमे निरूप्यते, तत्रैव प्राकृतबाधस्य प्राप्तवायत्वेन वक्तुमौचि त्यात् । नहि तत्र बाध्यबाधक योस्ताीयमानेन विकृतो विनि- योगः विकृतौ तादृशमानादर्शनात् । प्राकृतमानानां च विकृताव- विनियोजकत्वात् । विनियोजकत्वे चा त्रिच्छन्दस्त्वेनैव क्रमवाधाप त्तेः । तेन प्राप्तवाध एवेत्य वधारणस्य नानर्थक्य मिति बोध्यम् । ननु शरयुक्तविकृतावनिदेशस्य कुशेतरविषयत्वमिवैकत्रिके ऽति- देशस्य त्रिच्छन्दस्त्वेतरविषयत्वं वाच्यम्, अन्यथा शास्त्रप्राप्तस्य बाधायोगात् , ततश्च प्राप्तबाधोक्तेराकरस्थाया निर्विषयत्वं स्या- दत आह वस्तुतइति । अतश्च भ्रान्तीति । ननु प्रति-