पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- तहोधितनेतरबाधोऽप्राप्तबाधः, दुर्बलप्रमाणस्याप्रवृत्त- त्वात् । प्राकृतस्य त्वङ्गस्य विकृतौ चोदकप्राप्तस्य प्रत्याम्नानाद् , अर्थलोपात, प्रतिषेधादा यो बाधः स प्राप्तबाधः । यथा प्राकृतानां कुशानां प्रतिकूलशराम्ना- नात, यथा वा ऽवघातस्य कृष्णलेषु वैतुष्यरूपप्रयो- जनलोपात, यथा वा पित्र्येष्टौ होटवरणस्य “न होतारं वृणीते इति प्रतिषेधात् । औदम्बरत्वेन च खादिरत्वबाधः प्राप्तबाध एव वक्तव्यः, शरकुश- न्यायेन चोदकस्य च खादिरत्वाविषयत्वे प्राप्त्यभावात, तदनुपपत्तिः स्यादिति । उच्यते । तार्तीयप्रमाणविनि- युक्तनेतरस्य बाधनं तावदप्राप्तबाधनम् । प्रकरणं च तार्तीयम् । तेन तद्विनियुक्तौदुम्बरत्वेनेतरस्य बाधनम- प्राप्तबाध एव । न हि वैकृतेन प्राकृतबाधः प्राप्तबाध - कर्तव्ये नियोजनग्रहणं मूलशङ्कापरिहारार्थम् । प्रत्याम्नानादिति । आम्नानस्य प्रातिकूल्यं तत्कार्यकार्यर्थान्तरविधायकत्वम् , तादृशार्था- न्तराक्षेपकत्वं वा । तेन "सप्तदशशरावश्चर्भवति" "वत्समालभेत" इत्यादौ मुष्टिनिर्वापाजालम्भादिप्रत्याम्नानत्वसङ्ग्रहः । अर्थलोपा. दिति । साध्यसाधनयोरन्यतरासम्भवादित्यर्थः । तेन पवमानेष्टिषु आहवनीयाग्निहोत्रहवण्योर्वाधस्यार्थ लोपनिमित्तत्वसङ्ग्रहः । प्रतिषे. धादिति । निवृत्तितात्पर्यकाच्छास्त्रादित्यर्थः । तेनैतैरुदाहृतपर्युदा. सत्वस्य "न होतारं वृणीते"इत्यस्य "इडान्ता आतिथ्या संतिष्ठते" इत्येवंरूपशास्त्रान्तरस्य च प्रतिषेधत्वसङ्ग्रहः । नहीति । नचैवं प्रा-