पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विकृती कचित् प्रकरणपमाणसम्भवः । १८३ पदार्थाः कथम्भावाकाङ्क्षया गृह्यमाणा अपि न प्र- करणग्राह्याः प्रकृत्युपकारकतया तेषामाकाङ्क्षाभावात् । औदुम्बरत्वादयस्तु अन्यानुपकारकतया साकाङ्क्षाः पशनियोजनयपपृष्ठभावेन यावत खादिरत्वमायाति ताव- द्विधीयन्ते इति युक्तं तेषां प्रकरणाद ग्रहणम् , उभया- काङ्क्षासत्वात् । यदि हि यूपपृष्ठभावेन खादिरत्वं विहितं स्यात् ततो विकृतेराकाङ्क्षाभावाद् औदु- म्बरत्वं न प्रकरणग्राह्यं स्यात् । न चैतदस्ति, चो- दकस्य खादिरत्वाविषयत्वात् । ननु यदि यावत् खादिरत्वमायाति तावदेवौदु- म्बरत्वं विधीयते तदा तेन खादिरत्वबाधोऽप्राप्तबा- धः स्यात् तार्तीयबाधवत् । तथा हि बाधो द्विविधः-अप्राप्तबाधः प्राप्त- बाधश्चेति । तत्र तार्तीयो बाधो प्राप्तबाधः । तत्र हि यावद् दुर्बलेन प्रमाणेन विनियोगः कर्तुमारभ्यते तावदेव प्रबलप्रमाणेन विनियोगः क्रियते इति न्त्रगतयूपगैकत्वनिर्देशोपपत्तेः । यद्वा समुदायात्मना स्यात् । ला. घवेन सर्ववाक्यपर्यालोचनान्ते 'याश्छद्यते यस्तक्ष्यते स यूपः' इ- त्येवमेकवचनव्यक्तिस्वीकरणात् । खलेवाल्यां च कतिपयसंस्का- रप्रकाशकशब्दान्तराभावेनागत्या यूपशब्दप्रयोगाश्रयणाद् । अक्ष- शब्दवन्नानार्थस्य यूपशब्दस्य सकृत्प्रयोगे यावदर्थप्रकाशकत्वाभावा- पत्तेरित्यन्यदेतदित्याशयः। पश्चिति। यूपपृष्ठभावेनेत्येताववालं 14