पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८२ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- लादृष्टरूपत्वम् , आपि तु दृष्टादृष्टसंस्कारगुणो यूप इति साम्प्रदायिकाः । एवं चौदुम्बरत्वस्य न यूपमात्रेण नैराकाङ्यम् । दृष्टसंस्कारस्य प्रकारान्तरेणापि स- म्भवात । अतश्चास्ति औदुम्बरत्वस्याकाङ्क्षा । विकृते- रप्यस्ति कथम्भावाकाङ्क्षा । सा च तदा शाम्यति यदोपकारास्तत्पृष्ठभावेन च पदार्था अन्वीयन्ते । न तूपकारमात्रान्वयेन शाम्यति । अतश्च यथेन्द्रिय भावनायाः करणाकाङ्क्षा दन्नः करणत्वेनान्वये जाते सिद्धस्य करणत्वानुपपच्या होमस्याश्रयत्वेना. न्वयं यावदनुवर्तते न तु दध्यन्वयमात्रेण निवर्तते । आश्रयत्वेन च गृह्यमाणो होमः करणाकाङ्क्षयैव गृह्यत इत्युच्यते, न त्वाश्रयाकाङ्क्षा नाम चतुर्थ्य- स्ति । एवं विकृतेः कथम्भावाकाङ्क्षा नोपकारान्व- यमात्रेण निवर्तते, उपकारपृष्ठभावेन यावत्पदार्थान्वयम- नुवर्तते । अतश्चोपकारपृष्ठभावेन गृह्यमाणाः पदा- र्थाः कथम्भावाकाङ्क्षयैव गृह्यन्ते । तत्र प्राकृताः त्वेनाभिमतमदृष्टं प्रति खदिरत्वाञ्जनादिद्वारत्वेनाभिमतानां दृष्टा. दृष्टानामेव तद्वाच्यत्वसम्भवे नाधिकादृष्टकल्पनमुचितम् । तेषां तु वा. च्यवं प्रत्येकं स्यात्-'यश्छिद्यते स यूपः' 'यस्तक्ष्यते स यूपः' इति प्रत्येकं वचनव्यक्त्याश्रयणात् कतिपयसंस्कारहीनायामपि खले. वाल्यां मन्त्रगतयूपैकत्व निर्देशोपपत्तेः । वाच्यसंस्कारानेकल्वे ऽपि तदाश्रयकाष्ठैकत्वेन गुणवचनानाश्रयतो लिङ्गवचनादिम-