पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विकृतौ कचित् प्रकरणप्रमाणसम्भवः । १८१ न च यूपानुवादेन तस्य विधीयमानत्वाद् यूपस्य चाट- टरूपत्वात्तेनैवौदुम्बरत्वस्य नैराकाङ्क्षयम् आहवनीयेने- वाधानस्येति वाच्यम् । यूपस्य केवलादृष्टरूपत्वाभावा- तु । तस्य हि तदूपत्वे खादिरत्वादिकं केवलादृष्टार्थ स्यात् । न च तत् सम्भवति । तथा सति खदिराभावे प्रतिनिधित्वेन कदरोपादनं न स्यात् । अदृष्टार्थस्य प्रतिनिध्यभावात् । न हि खदिरजन्यमदृष्टं कदरेण क्रियते इत्यत्र प्रमाणमस्ति । अत एव नादृष्टार्थानां प्रतिनिधिः । तदुक्तम्-"न देवताग्निशब्द क्रियमन्यार्थ(१). त्वाद्” इति (पू० मी० अ० ६ पा० ३ अ० ६ सू०१८) अन्यार्थत्वादिति अदृष्टार्थत्वात् । प्रतिनिधित्वेन चो- पादानं कदरादेरुक्तं ग्रन्थेषु । तस्मान्न यूपस्य केव- रतादित्रिधिषु क्रत्वपूर्वसम्बन्धाकासा वक्तुं शक्यते । वस्तुग- तिमनुरुध्याह यूपस्येति । ननु “न देवता-” (पू० मी० अ० ६ पा० ३ अ० ६ स. १८) इतिसूत्रे प्रयाजादिक्रियाणा- माहवनीयाद्यग्नीनां च प्रतिनिध्यभावे यो न्यायो ऽभ्यधायि स भवता यूपे मञ्चार्यते देवतामन्त्रयोदृष्टार्थयोरपि मुख्यस्मृत्यस्मृत्यो- स्तत्तदृशग्रहासम्भव इत्यादिन्यायान्तरेण प्रतिनिधिनिराकरणात् । नचेह तत्साम्यम् । दृष्टान्ते साक्षाददृष्टार्थत्वात्. दाष्टान्तिके परिच्छे. दाख्यदृष्टद्वारेण तदर्थत्वादत आह तस्मादिति । यूपशब्दवाच्या १ सूत्रपाठे आनन्दाश्रमीयपुस्तकानुरोधेन “न देवताऽग्निशब्दकि- यमन्यार्थसंयोगाद्" इत्यानुपूर्वी लभ्यत एतत्सूत्रस्य, तथाऽपि मूलका- रकृताव्यवहितोत्तरव्याख्यानेन मूलाभिप्रायानुरोधिन्येव सुत्रानुपूर्वी स्थापिताऽत्रेत्यवधेयम् ।