पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८० भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- प्राकृतानामिति । उच्यते । सत्यं प्रकरणं झटिति वि- नियोजकम, तथाऽपि प्रमाणबलाबलात्प्रमेयबलाब- लस्य ज्यायस्त्वाद् उक्तविधयोपस्थितत्वात् प्राकृता- नामेव सम्बन्धो युक्तः, क्लुप्तोपकारत्वात् , न वैक- तानाम् कल्प्योपकारत्वान । विकृतेश्वोपकारकपदार्था- कासा न पदार्थमात्राणामिति युक्तः प्रथमं प्राकृता- गसम्बन्धः । ततश्च न विकृतौ प्रकरणं विनियोजकम् । यत्तु विकृतौ प्राकृताङ्गानुवादेन विधीयते, य- था “औदुम्बरो यूपो भवति इति यूपानुवादेन औदुम्ब- रत्वम्, तत् प्रकरणाद् गृह्यते । ननु न तत् प्रक- णाद् गृह्यते अक्रियात्वात्, क्रियाया एव प्रकरण- ग्राह्यत्वादिति चेत् । सत्यम् । तथापि तु तावद्विधीय- मानस्यौदुम्वरत्वस्यास्त्येवाकाङ्क्षा-'किं भावयेद् इति । सिद्धिरिति अभिमानेने यमुक्तिः, स्थानात्स्यादियग्रिमा च । क्लमो- पकारस्य बलीयस्त्वपयोजकत्वे बीजमाह विकृतेश्चेति । पकारार्थ पदार्थानाकान्ती विकृतिर्हि येभ्य उपकारक्लूप्तिस्ता- ननादृत्य नान्येभ्य उपकारकल्पनां सहत इत्याशयः । स्वरूपेणी- दुम्बरतायाः प्रकरणाग्राह्यत्वे ऽपि चोदकमाप्तनियोजनविशेषणत्वे- न तद्रायन्वसम्भव इत्याशयेनाह सत्यमित्यादिना । यद्य- प्याहवनीयवयूपः केवलादृष्टात्मा स्यात्, तथाऽपि “यदाहवनीये जु- होति" इत्याहवनीयविनियोगविधाविव न्यायसुधायुदाहृते "पालाशे बध्नाति इति यूपविनियोगविधावदृष्टवाचिशब्दाभावेनादृष्टविशिष्टस्य ऋत्वपूर्वसम्बन्धालाभापाकृतखाादराञ्जनादिविधिचिव वैकृतोदुम्ब-