पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विकृतौ प्रकरणप्रमाणस्याविनियोजकत्वम् । तराकाङ्क्षारूपस्थानादेव चापूर्वाङ्गग्रहणम् । न च प्राकृताङ्गग्रहणमेव विकृतौ प्रकरणात किं न स्यादिति वाच्यम् । तेषामपि प्रकृत्युपकारकतयाऽऽकाङ्क्षोप- शमात् । ननु प्राकृतानामङ्गानामाकासाभावेन तेषां वि. कृतौ सम्बन्धः केवलं स्थानात् स्यात्, अपूर्वा- णां त्वाकाङ्क्षासत्त्वादिकृतेरप्याकाङ्क्षावत्त्वात्तेषां सम्ब- न्धः प्रकरणात्स्यात, प्रकरणं च स्थानाज् झटिति वि- नियोजकमित्यपूर्वाणामेव प्रथम सम्बन्धः स्यात्, न सु त्रित्वसाम्यात्पाठिकाद्यन्ह एव विध्यन्तावृत्तिः शङ्ख्या । अङ्गभूत- स्तोत्रीयागतसङ्ख्यासाम्यात्प्रधानगतगणत्वसाम्यस्य बलीयस्त्वात् । आसनोपेयादिचोदनाचोदितत्वानमित्तसत्रसंज्ञासाम्यात्सत्रात्मकत. दन्तर्वर्तिदशरात्रस्य त्रयोदशरात्रादिषु गवामयनपर्यन्तेषु । तस्मा. द् इतरसम्वत्सरसत्रेषु । षट्त्रिंशद्रात्रे "षडहा भवन्ति चत्वा- रो भवन्ति"इत्यत्र तु षडहिकविध्यन्तावृत्तिः द्वादशाहिकमपेक्ष्य त- स्य शीघ्रप्रतीतेः । यद्यप्युक्तनीत्या"शतोक्थ्यं भवति"इत्यत्रोक्थ्यपद- वाच्यसंस्थया संख्यया च विशिष्टेष्वहःसु विहितेषु दशरात्रवि. ध्यन्त आवृत्त्या प्रवर्तते, तथाऽपि प्रतिदशकमतिदेशप्राप्तयोरभि- तो ऽग्निष्टोमयोः स्थाने य उक्थ्यविनियोगः स ज्यौतिष्टोमिको- क्थ्यविषय एव बोध्यः । द्वादशाहिकस्येव गावामयनिकस्याप्यु- क्थ्यविनियोगस्य ज्योतिष्टोमगतां तदुत्पत्तिमपेक्ष्यैव प्रवृत्यौचित्या- दित्यायूह्यम् । प्रकरणादिति । यद्यपि संनिधिपठितयोः शेषशे. षित्वाभिमतयोरुभयाकासा प्रकरणमिति न प्राकृतानां प्रकरण- विनियोज्यत्वशङ्कोदयः, तथाऽपि पाठपंपाद्य सान्निधेरिहातिदेशेनैव +