पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१. भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- भावे तदसझहाय प्रयोजनमुद्दिश्येति । कामशब्दोपात्तं प्र- योजनपदार्थः तत्साधनत्वेनाज्ञातज्ञाप्यमितिविशिष्टार्थः । अस्ति- च विश्वजिदादीनामपि कल्प्यकामपदेन फलनिर्देशः । यदि तु वाजपेयानुष्ठानमजानद्भिः बृहस्पतिसवकर्तरि धार्मिकोऽय- मिति व्यवहारात् क्रत्वानामपि धर्मत्वं तदा विवाहार्थानृत- वदनादावभ्यनुज्ञाशास्त्रेण निषेधातिक्रमनिमित्ताऽनिष्टाननुब- घित्वेनाऽज्ञातज्ञाप्येऽतिप्रसङ्गवारणाय प्रयोजनमिति । नहि तेन शास्त्रेणानृतवदनं क्रतूपकारस्य स्वर्गादेर्वा हेतुत्वेन ज्ञा- प्यते । नच विवाहाख्यश्रेयःसाधनत्वादुक्तरूपेण वेदबो- घितत्वाचास्तामस्यापि द्वितीयसूत्रानुसारेण श्रेयस्करत्वं- भाष्यानुसारेण च धर्मत्त्वमिति शक्यम् । धर्मत्त्वं वेदवो- धितश्रेयःसाधनतेति भट्टोक्तेः । यथाहुः- (१)"श्रेयःसाधनता ह्येषां नित्यं वेदात्प्रतीयते । ताद्रूप्येण च धर्मत्वं तस्मान्नेन्द्रियगोचर" इति (इलो. वा. चो. सू. १४) वलवदनिष्टाऽननुवन्ध्यर्थकमर्थपदं श्येनवारणाय । ननु नैव श्येनस्यानिष्टहेतुत्वं तस्य विहितत्वेन निषेधाऽवि- - | (१) ननु गोदोहनादि द्रव्यं नीचैस्त्वादि गुणो यागादिक्रिया च फलसाधनत्वाद्धर्मोनापूर्वादिरित भाग्ये वक्ष्यते द्रव्यादि च प्रत्यक्षामिति कथं चोदनैव प्रमाणमित्यवधारितमित्याशंङ्ग्य वार्तिके एतदुक्कं यद्यपि द्रव्यक्रियागुणादीनां धर्मत्वं भाष्यकारेण स्थाप- यिष्यते तथापि तेषां यदिन्द्रियग्राह्यं रूपं न तेन रूपेण धर्मत्वं, केन तर्हि रूपेण धर्मत्वमित्यत आह हि यतः एषां द्रव्यक्रियागु- यादीनां अलौकिकश्रेयःसाधनता वेदं विना नान्येन प्रमाणेन गम्यते किन्तु केवलं चोदनात एव गम्यते अतएव ताद्रप्येण चोदनाबो- धितालौकिकश्रेयःसाधनत्वेन रूपेण धर्मत्वमत एवं हेतोन धर्म- स्वेन्द्रियग्राहात्वापत्तिरित्यर्थः । इन्द्रियपदं चोपलक्षणं नानुमाना- दिगोचर इत्यपि द्रष्टव्यम् ।