पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धर्मलक्षणघटकपदकृत्यम् । www.mmmmmmmmmm ख्यावसरे * भट्टा:- (१)"भैयो हि पुरुषप्रीतिः सा द्रव्यगुणकर्मभिः । चोदनालक्षणैः साध्या तस्मात्तत्रैव धर्मता" इति । (श्लो. वा. चो. सू. १९१) अत्र च “यस्मिन्प्रीतिः पुरुषस्य" इति पुरुषार्थलक्षणान्तर्गत- प्रीतिपदेन श्रेय पदव्याख्यानाध्यग्निहोत्रगोदोहनादेर्धमत्वं स्था. पयिष्यते इति चैतद्वातिकात् पूर्वत्र अट्टोक्तेः भावार्थाधिकरणे च फलभावनाकरणस्यैव धर्मत्वोक्तेः को धर्म इति स्वरूपजिज्ञासा- तः कानि साधनानीतिपृथगङ्गजिज्ञासोक्तेश्च क्रत्वर्थानां धर्मत्वा- ___ (१) चतुर्थाध्यायस्य प्रथमपादे अथातः क्रत्वर्थपुरुषार्थयोर्जि शासेति प्रथमसूत्रस्थक्रत्वर्थपुरुषार्थपदार्थशानार्थ तयोर्लक्षणप. रसूत्रम्-यस्मिन् प्रीतिः पुरुषस्य तस्य लिप्सायलाणा वि. भक्तत्वात् । यस्मिन् स्वर्गादिसुखविशेषे पश्वादिसुखसाधने च लब्धे प्रीतिः कृतार्थोऽस्मीति वृत्तिस्तत्साधनं पुरुषार्थः । यद्वा यस्मिन्ननुष्ठिते पुरुषस्य प्रीतिः सुखविशेषो भवति स पुरुषार्थः यथा यागेऽनुष्ठिते स्वर्गरूपसुखं भवति तत्वमिति लक्षणसमन्वयः । प्रयाजादौ क्रतूपकारकत्वेन फलसाधनत्वाभावान्नातिव्याप्तिः तद- न्योविहितः क्रत्वर्थः तस्य लिप्सा इच्छा अर्थलक्षणा शास्त्रं विना अर्थतः स्वत एव लक्षणमुत्पत्तिर्यस्याः तादृशी तेन फलेन सह साध्यसाधनभावस्य अविभक्तत्वात् अव्यभिचारात् क्रत्विच्छति । इत्थं च शास्त्र जन्यज्ञानाजन्येच्छाविषयसाधनत्वं पुमर्थत्वम् । स्व- गैच्छायाः शास्त्रजन्यज्ञानाजन्यत्वेन तदिच्छाविषयस्वर्गसाधनत्वा- धागे लक्षणसमन्वयः । एवं चैतत्सूत्रघटकप्रीतिपदेन श्रेयःपद- व्याख्यानात् य एव श्रेयस्करः स एव धर्मशब्दनोच्यते इति भाष्येण प्रीतिजनकस्यैव धर्मत्वकथनात् । वार्तिककारेणाप्येतदु- क्तम्-हि यतः श्रेयः पुरुषप्रीतिः सा च चोदनालक्षणैः चोदनाधि- हितैः द्रव्यगुणकर्मभिः सम्पाद्यते तस्मात्तेषां द्रव्यगुणकर्मणामेव धर्मशब्दवाच्यत्वं नत्वपूर्वादीनामित्यर्थः।

  • तस्माचोदनालक्षणोऽर्थः श्रेयस्करः य एव श्रेयस्करः स एवं

धर्मशब्देनोच्यत इति भाष्यव्याख्यानावसरे इत्यर्थः ।