पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- येषु धर्मो विचारितः(१)। तत्र वेदेन प्रयोजनमुद्दिश्य इत्याशा सूत्रस्थधर्मपदार्थमाह । तत्रेति । यागादिकर्तरि अपूर्वसत्ताज्ञानशून्यैरपि धार्मिकपदप्रयोगात् “तानि(२) धर्माणि प्रथमान्यासन्" इतिश्रुतौ यज्ञे धर्मपदप्रयोगात् । - "इज्याचारदमाहिंसादानस्वाध्यायकर्मणाम् । ... अयन्तु परमो धर्म"(याज्ञ.स्मृ.आचा.)इत्यत्राप्येषां मध्येऽयं परमो ब्राह्मणः इत्यत्र षष्ठयन्तपदनिर्दिष्टानां ब्राह्मणत्ववदिज्या- दीनां धर्मत्वप्रतीते ऽदृष्टवाचि धर्मपदं, किन्त्वदृष्टव्यापारेण य- द्वंलवदनिष्टाऽननुवन्धिफलकरणमनदृष्टं तद्वाचीत्याशयः । वेदपदं च पारायणविधाविव न मन्त्रब्राह्मणग्रन्थपरम् असम्भवापत्तेः नापि तदन्तर्गतवाक्याभिप्राय, किन्त्वपौरुषेयवाक्यपरं तेन लिङ्गादिकल्पितश्रुतिविहितानामपि धर्माणां सङ्ग्रहः विधी- यमानत्वं चाज्ञातज्ञाप्यत्वं न प्रयुज्यमानत्वमप्रयोज्यस्यापि पञ्च- मवर्षादिकालस्य धर्मत्वात् । यथाहुः-श्रेयस्करभाष्यव्या - . (१) प्रमाणभेदशेषत्वप्रयुक्तिक्रमाधिकारसामान्यातिदेशविशे- पातिदेशोहबाधतन्त्रप्रसङ्गाख्या द्वादशानामध्यायानां द्वादशविषयाः समस्तस्य चार्थस्य वक्ष्यमाणस्य प्रतिज्ञापिण्डोऽयं धर्मजिज्ञासेति यथा राजासौ गच्छतीत्युक्ते सपरिवारस्य राज्ञोगमनमुक्तं भवति तथा यैर्जिशासितैर्विना धर्मो जिज्ञासितो न भवति तानिअर्था- क्षिप्तान्येव भवन्तीति न पृथक्सूत्रयितव्यानि इति न तेषां वि- चारस्याप्रतिज्ञातार्थविचारत्वमिति ध्येयम् । .: (२) तानि धर्माणीत्यत्र प्रातिपदिकं तावद्यज्ञवाच्येव अन्यस्या- प्रकृतत्वात् यज्ञेन यज्ञमयजन्तदेवाइति पूर्वत्र तस्यैव प्रकृतत्वा- तत्समानाधिकरणश्च धर्मशब्दः ततः सोऽपि यज्ञविषय एव, लिङ्गसङ्ख्ययोस्तु छान्दसत्वादसौ व्यत्यय इति भावः।