पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- तेषां किं भावयेदित्यस्त्याकाङ्क्षा, तथाऽपि प्रधानस्य न कथम्भावाकाङ्क्षाऽस्ति, प्राकृतरेखाङ्गनिराकाङ्क्षत्वा त् । न च प्राकृतानामङ्गानामत्रापठितत्वेनाप्रत्यक्ष त्वाद्वकृताना तु पठितत्वेन प्रत्यक्षत्वात्तैखाकाक्षोप- शम” इति वाच्यम् । तेषां पठितत्वेपि अक्लुप्तो- पकारत्वेन झटित्याकाङ्क्षोपशमने सामर्थ्यात, प्राकृतानां तु क्लुप्तोपकारत्वेन तच्छमने सामर्थ्यात्। न चात्र तेषामु- लक्षणपरिहारात् । नचात्रेति । अत्र मौर्ये । यत्र ह्यग्निहोत्रादिनाम धर्मवतो नामत्वेन क्लृप्तं विधेयकर्मान्तरे वैष्णवादिपद वद्गुणविधित्वेन प्रायणीयादिवद्यागिकत्वेनासम्भवदन्यायश्चानेकार्थत्वमिति गाण्या पवृत्तं विधिसमभिव्याहारादुरशये यूपपदवत्सुरावाजिनयोः सोम- पदवत्स्तुतावपर्यवस्यदमी पिष्टपिण्डाः सिंहाः क्रियन्तामितिवदतिदेशे पर्यवस्यति, तत्र चोदनायां भवतु तत्कृतोपस्थितिः प्राकृतानाम् , यत्र वा तदतिदेशकं वचनमाम्नायते यथेषावकाहे “इषु विष्टुतिं करोति" इत्यनन्तरं “समानमितरच्छयेनेन" इति । अत्र हि यदि भाष्यमत- मनुसृत्येतरपदं पूर्वोक्तेषु सदृशमसंनिहितमपि श्येनवैशेषिक कण्टक- वितोदनादि विधत्त इत्युच्यते, यद्वा ऽऽचार्यमतानुसारेणेतरपर्द पूर्वोक्तविष्टुत्यादेरवशिष्टस्य प्राकृताङ्गस्योद्देशक समानपदं प्रकृता- सम्बन्धस्य श्येनगतलोहितोष्णीषादेर्विकारस्य विधायकमित्या- श्रीयते, सर्वथाऽपि सुलभा तत्र तेषामुपस्थितिः । प्रत्यक्षं वचः कथं नोपदेश इति तु भ्रममात्रम् । अन्यत्र विहितानां धर्माणां तत्सम्बन्धा- परित्यागेनान्यसम्बन्धप्राप्तिफलकस्य शास्त्रस्यातिदेशत्वात् । तद्वि- परीतस्योपदेशत्वात् । एवं यत्र"एतद्ब्राह्मणान्येव पञ्च हवींषि""एत. ब्राह्मण एककपालः" इत्यादौ सार्थवादकसाङ्गाविधिककाण्डवाचि-