पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकरणद्वैविध्यम् अत एव "बर्हिदेवसदनं दामि' इत्यादिमन्त्राणां लिङ्गादङ्गत्वम् , न तु प्रकरणादित्युक्तम् अर्थवादा- धिकरण(पू० मी० अ० १ पा० २ अ० १) पूर्वपक्षसमाप्तौ राणके । क्वचिद् द्रव्यस्येतिकर्तव्यतात्वाभिधानमङ्गत्वा- भिप्रायं द्रष्टव्यम् , बहुअन्यस्वरसादुक्तयुक्तेश्चेति । तत्सिद्धं प्रकरणं क्रियाया विनियोजकमिति । तच्च प्रकरणं दिविधम् । महाप्रकरणमवान्तरण- करणं चेति । तत्र फलभावनायाः प्रकरणं महाप्रकरणम् । तच्च प्रयाजादीनां ग्राहकम् । तच्च प्रकृतावेव । यत्र समग्राङ्गोपदेशः सा प्रकृतिः, यथा दर्शपूर्ण- मासादि । तत्र चोभयाकाङ्क्षारूपं प्रकरणं सम्भवति आकाङ्क्षानुपरमात । विकृतौ तु न प्रकरणं सम्भवति । यत्र न समग्राङ्गोपदेशः सा विकृतिः, यथा सौर्यादिः।त- त्र च यान्यपूर्वाण्यङ्गानि विद्यन्ते उपहोमादीनि तेषां न प्रकरणं विनियोजकम् । तत्र यद्यपि लिङ्गादिति । प्रकरणसह कृतादिति शेषः। प्रकरणादित्यनन्तरमेवे- ति । लिङ्गादभिधानक्रियाऽर्थत्वेऽवगते तद्वारेण मन्त्राणां प्रकरणेन ग्रहणं ? सम्भवति नान्यथा, प्रकरणागृहीतस्योच्चारणकर्त्तव्यताया अप्यसिद्धेरिति तदाशयः । उपहोमादिकतिपययागोपवेशवत्या विक- तेरिणाय समग्रेति । यत्रनेति । नच दविहोमेष्वतिप्रसङ्गः, तेषा- पङ्गसच्चे तस्य द्रव्याद्यात्मन औपदेशिकत्वात् , असत्वे ऽप्रसिध्यैव