पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७४ भाहालङ्कारसहितमीमांसान्यायमकाशे- धमननिपातनव्यतिरेकेण कुठारेण द्वैधीभावो जन्यते। तत् सिद्धं कथम्भावाकाङ्क्षायां क्रियैवान्वेतीति युक्तम् । अत एव द्रव्यदेवतयोगसंपादनद्वाराऽन्वयः साम्प्र- दायिकैरुक्तः । विकृतौ च कथम्भावाकाङ्क्षायामुपका- रसम्पादनमतिदिश्यत इत्युक्तम् । यदि च कथ- म्भावाकाङ्क्षायां सिद्धवस्तु अन्वययोग्यं स्यात तदा स- म्पादनपर्यन्तं धावनं ग्रन्थकृतामनर्थकं स्यात् । अ- तश्च क्रियाया एव इतिकर्तव्यतात्वम् , कथंभावाकाङ्क्षा- गृहीतस्यतिकर्तव्यतात्वात, इतिशब्दस्य च प्रकारवा- चित्वात । कर्तव्यस्य इति प्रकार इतिकर्तव्यता । प्रकारश्च सामान्यस्य भेदको विशेष इत्युक्तम् । कर्त- व्यस्य च विशेषः कर्तव्य एव भवतीति न सिद्धस्य वस्तुन इतिकर्तव्यतात्वम्, किन्तु क्रियाया एव । सिद्धस्य तु द्रव्यादेः केवलमङ्गत्वम् । तदपि श्रुत्यादिना न तु प्रकरणात् । यथाहु:- नावान्तरक्रियायोगाढते वास्योपकल्पितात् । गुणद्रव्ये कथम्भावैर्यह्णन्ति प्रकृताः क्रियाः ॥ इति (तन्त्रवार्तिके २९३) एवमग्रेऽपि । सिद्धमनुष्ठेयम्। अन्यादृशसिद्धत्वस्योपकारेष्वसम्भवात् ।