पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकरणप्रमाणम् । तुभावितुं योग्यम् , क्रियाया एव लोके कथंभावा- काडक्षायामन्वयदर्शनात् । न हि कुठारेण छिन्द्यात्क- थमित्याकाङ्क्षायां हस्त इति केवलमुच्चार्यमाणोऽपि ह- स्तोऽन्वयं प्राप्नोति, किं तर्हि ? हस्तेनोद्यम्य निपात्येति उच्चार्यमाणे उद्यमननिपातने एव । हस्तोऽपि तहा- रेणैवान्वयं प्राप्नोतीति सर्वजनीनमेतत् । किं च कथंभावाकाङ्क्षा नाम करणगतप्रका- राकाङ्क्षा । कथमः प्रकारवाचित्वात् । सामान्यस्य भे- दको विशेषः प्रकारः । सामान्यं च क्रियारूपमेवाख्या- तेनोच्यते। "यजेत स्वर्गकामः' इत्यस्य ह्ययमर्थः-यागेन तथा कर्त्तव्यं यथा स्वर्गो भवतीति । क्रियासामान्यस्य च विशेषः क्रियैव भवति । न हि ब्राह्मणविशेषः परित्रा- जकादिब्राह्मणो भवति । एवं च करणगतक्रियावि- शेषाकाङ्क्षापरनामधेयकथम्भावाकाङ्क्षायां क्रियैवान्वेती- ति युक्तम् । स च करणगतः क्रियाविशेषोऽन्वाधाना- दिब्राह्मणतर्पणान्तक्रियारूप एवेति युक्तं तस्य प्र- करणेन ग्रहणम् । तस्य च करणगतत्वं तदुपका- रकत्वमेव, तेन विना यागेनापूर्वाजननात । न ह्य- विपरिणामेनेत्यर्थः । उच्चार्यमाणोऽपीति । यद्यपि शानजभिहित- मुञ्चारणकर्मत्वं शब्दगामि तथाऽपि शब्दकर्मीभूते ऽर्थे तद् उपचर्यते ।