पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७२ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- तदुक्तम्-“द्रव्यसंस्कारकर्मसु परार्थत्वात्फलश्रुति- रर्थवादः स्याद्" इति (४ । ३।१)। अत्र द्रव्ये फलश्रुतिः-“यस्य पर्णमयी जुहूर्भवति न स पापं श्लोकं शृणोति" इत्येवमाद्या । संस्कारे फलश्रुतिः-“यदाते चक्षरेव भ्रातृव्यस्य वृङ्क्ते इत्येव- माद्या । कर्मणि फलश्रुतिः-"वर्म वा एतद्यज्ञस्य क्रियते यत प्रयाजानुयाजा इज्यन्ते"इत्याद्या । कर्मपदं चारादुपकारकर्मपरं द्रष्टव्यम, संस्कार- कर्मणः पृथक् सङ्कीर्तनादित्यास्तां तावत् । तदिदं प्रकरणं क्रियाया एव विनियोजकम्, म द्रव्यगुणयोः । तयोस्तु क्रियायोगादिनियोज- कम् । कुत इति चेत् । शृणु । "यजेत स्वर्गकामः” इत्यत्राख्यातांशेनार्थी भावना वि- धीयते-भावयेदिति । सा चांशत्रयमपेक्षते-'किं भा- क्येत, केन भावयेत् कथं, भावयेद'इति । तत्र भाव्या- काङ्क्षायां षष्ठाद्यन्यायेन वर्गो भाव्यतयां ऽन्वेति-स्वर्ग भावयेद्" इति । करणाकाङ्क्षायां समानपदोपात्तो यागो भावार्थाधिकरणन्यायेन (२ । १।१) करणतया ऽन्वेति- 'यागेन स्वर्ग भावयेद् इति । ततः कथमिति कथम्भा- वाकाङ्क्षायां यत सन्निधौ पठितमश्रूयमाणफलकंच क्रि- याजातं तदेवोपकार्याकाङ्क्षयेतिकर्तव्यतात्वेनान्वयम-