पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकरणप्रमाणम् । पत्तेरवश्यं फले कल्पयितव्ये आर्थवादिकं प्रतिष्ठाख्यं फलमित्युक्तम् । विश्वजिदधिकरणन्यायेनानुपस्थितस्वर्गकल्पने तस्य प्रकृतसम्बन्धकल्पने गौरवादर्थवादोपस्थितस्यैव प्रकृतसम्बन्धकल्पने लाघवात् । तदुक्तम्-“फलमात्रेयो निर्देशादश्रुतौ ह्यनुमानं स्याद् इति ( ४ । ३ । १८ )। तस्मादिश्वजिन्न्यायन रात्रिसत्रन्यायेन वा स्व- तन्त्रफलार्थत्वे सम्भवति किमिति दर्शपूर्णमासाङ्गत्वं स्वीक्रियते इति । मैवम् । स्वतन्त्रफलार्थत्वेऽन्यतराकाङ्क्षया सम्बन्धः स्यात् । न ह्यत्र फलस्य साधनाकाङ्क्षाऽस्ति । श्रूय- माणं हि फलं साधनमाकाङ्क्षति, न चात्र त- च्यते । एवं च फलस्याकाङ्क्षाभावात् केवलं किं भावयेदिति प्रयाजानां भाव्याकायैव स्वत. त्रफलार्थत्वं स्यात् । दर्शपूर्णमासार्थत्वे तूभयाकाङ्क्षा प्रमाणम्, प्रयाजानां भाव्याकाङ्क्षाया इतरत्र च कथ- म्भावाकाङ्क्षायाः सत्त्वात् । अन्यतराकाङ्क्षातश्चोभया काङ्क्षा बलीयसीति वक्ष्यते । ततश्च दर्शपूर्णमासार्थ- त्वमेव युक्तं न स्वतन्त्रफलार्थत्वमिति । आर्थवादिकमिति । ये प्रतितिष्ठासन्ति त एता रात्रीरुपेयुरिति