पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७० भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- द्यागेन भावयेत् किमित्यस्त्युपकार्याकाङ्क्षा । दर्श- पूर्णमासवाक्येऽपि दर्शपूर्णमासाभ्यां स्वर्ग भावयेत्कथ मित्यस्त्युपकारकाकाङ्क्षा । अत उभयाकाङ्क्षया प्र- याजादीनां दर्शपूर्णमासाङ्गत्वं सिध्यति । नन यदि प्रयाजादिवाक्ये इष्टविशेषो न श्रूयते तर्हि विश्वजिन्न्यायेन स्वर्गः फलं कल्प्यताम् । विश्वजिदधिकरणे हि (४४१०-१६) "विश्व- जिता यजेत” इत्यत्र फलस्याश्रवणात्, फलमन्तरेण च विधिश्रुतेरनुपपत्तेवश्यं फले कल्पयितव्ये सर्वा. भिलषितत्वेन वर्गः फलमित्युक्तम् । तदुक्तम्-“स स्वर्गः स्यात्सर्वान्प्रत्यविशिष्टत्वाद्” इति। (४।३।१५) रात्रिसत्रन्यायेन वाऽऽर्थवादिकं फलं कल्प्यताम् । रात्रिसत्राधिकरणे ( ४ । ४ । १७-१८) हि "प्रतितिष्ठन्ति ह वै य एता रात्रीरुपयन्ति"इत्यत्र विध्युद्देशे फलाश्रवणात्फलमन्तरेण च विधिश्रुतेरनुप- संयुक्त प्रकरणादितिकर्तव्यतार्थिवाद" इति (पू० मी० अ० ३ पा० ३ अधि० ४ मू० ११) । अत्र पञ्चम्यन्तयोः सा. मानाधिकरण्यात्कथम्भावाकाङ्क्षच प्रकरणमित्यवसीयते, असं. युक्तपदं च फलाकासोपस्थापकं नतु सन्निपातिनिवारणाद्यर्थ- मिति वार्तिकटीकायां प्रपञ्चितमेतैः । फलइति । अविवक्षितसं- ख्याकनिर्देशः । उपयन्तीत्यवेति । एतदर्थवादसम्बद्ध इत्यर्थः।