पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकरणप्रमाणम् १६९ अत एव “इन्द्राग्नी इदं हविरजुषेतामवीवृधेतां महो ज्यायोऽक्राताम्" इत्यत्रेन्द्राग्नीपदस्य लिङ्गादर्शाङ्गत्वे सिद्धे "इदं हविः' इत्यादेरपि तदेकवाक्यत्वादर्शाङ्गत्वम् , न तु प्रकरणादर्शपूर्णमासाङ्गत्वम् । प्रकरणादाक्यस्य बलीयस्त्वादिति ॥ उभयाकाङ्क्षा प्रकरणम् । यथा प्रयाजादिषु । "समिधो यजति' इत्यत्र हि इष्टविशेषस्यानिर्देशात्समि- वाक्येन न्यायेन विधिवाक्यस्य तथात्वासद्धलाघवमनुसृत्य मन्त्रवाक्य- कृनयाधमाह-अत एवेति । प्रकरणबाध्ययोर्मानयोमध्ये स्थानस्य बाधायाम् अग्नीषोमीयक्रमेण प्रसक्ततन्मात्राङ्गत्वानि लि. गावगतपशुत्रयाङ्गभावपारचीतपदैकवाक्यत्वानि क्रियमाणपरिव्या- णानुवादिमन्त्रगतानि “युवा सुवासाः" इत्यादिपदान्दाहरणम् । वाक्येन क्रमं बाधित्वा तेषां सवनीयपरिव्याणे विनियोगसिद्धः । समाख्याया वाक्येन बाधायां भक्षानुवाकगतानि लिङ्गावगत- ग्रहणाद्यङ्गभावैः सध्यासमित्यादिपदैरेकवाक्यतापन्नानि शेषपदान्यु. दाहरणम् । समाख्याप्राप्तभक्षणाङ्गत्वबाधेन तेषां ग्रहणादिष्वेव वि. नियोगात् । उभयेति । फलाकासाविशिष्टकथंभावाकाङ्केत्यर्थः । वैशिष्ट्यं च स्वाश्रयभावनासन्निहितभावनाश्रितत्वसम्बन्धेन, न वेकपुरुषावगतत्वादिना । तेन न विश्वजिदादेः प्रकरणेन दर्शा- त्वम् , नापि दर्शप्रकरणेन प्रयाजादेः प्रकरणित्वम् । यथा हि ज्ञानत्वं ज्ञानपदवाच्यमपि न ज्ञानं तथाऽङ्गविधिगता फलाकाङ्क्षा प्रकरणपदवाच्याऽपि न प्रकरणम् । प्रकरणोक्तसम्बन्धेन यदी- यफलाकासाविशिष्टा ऽनिर्णीततदनङ्गत्वगता या कथंभावाकाङ्क्षा सा तद्विनियोजकं प्रकरणमिति तु निष्कर्षः । उक्तं हि-"अ-