पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६८ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- कवाक्यभूतम् इति । ततश्चाकाङ्क्षारूपं प्रकरणं वाक्य- स्य वाक्यान्तरैकवाक्यत्वे प्रमाणम् । एवं च यावत् प्रकरणं वाक्यं कल्पयित्वा वि- नियोजक भवति तावद्वाक्यं लिङ्गश्रुती कल्पयित्वा विनियोजक भवतीति प्रकरणाडाक्यं बलीयः । तां क्रत्वन्वयाधीनप्रतिपत्तिकामपेक्ष्य क्रतोरेव शीघ्र साधनता प्रतीतेनिणीतयागाङ्गपावसामधर्मविधिमिश्रिता अङ्गविधयः प्र. थमतरतुशेषत्वं गता न पुनः संस्थाशेषत्वं प्रतिपद्यन्ते । कथं- भावोपशमस्तु ज्योतिष्टोमादतिदेशेन भवेत् । यद्यपि संस्थाज्योति. टोमयोन सारूप्यम्, तथाऽपि सारूप्यकार्याया बुद्धिस्थताया इहाश्र- यत्त्वमहिम्ना एव सिद्धर्नानुपपत्तिरिति प्राकृताङ्गनैराकाझ्यादसं- बद्धव्यवायाच्च न प्रकरणेन संस्था सन्तईनम् । न चात्र संस्था- सन्निधिरपि । येनानुवादस्य सन्निहितगामित्वात् “पयाजे कृष्ण- लम्"इत्यत्र प्रयाजपदेनेव दीर्घसोमपदेन संनिहितनिर्देशः स्यात् । तस्मादस्त्यहर्गणेष्वपि सन्तर्दनम्, एकाहेष्वपि । यत्र ज्योति- ष्टोमाधिकग्रहविधिस्तत्र दाशमिकन्यायेन प्राकृतग्रहाबाधाद्भवतु संस्थावदीर्घसोमत्वम् । ज्योतिष्टोमे तु न निवेश इति प्रकरणबाधः । "न प्रथमयज्ञे"इसस्य प्रकरणबाधकत्वं निषेधप्रस्तावे वक्ष्यामः । पूषेतिवचश्च न प्रकरणिनि दशैं पेषणं विधते तत्र पूषयागाऽभावा- द, किन्तु तदेकदेवत्ये चरौ देवताया अनुक्तत्वेनाग्नेयपदवद्भागप- दस्य तद्देवत्यपरत्वात् प्रतिप्रसवेनार्थवावे लाघवाच । एवं किं मे प्रजया इति शंयुयाचितवरमदाने “यो ब्राह्मणायावगुरेत्तं श- तेन यातयाद्" इत्यस्मिन्प्रकृतदार्शिकविङ्मात्रस्य ब्राह्मणपदेन निर्देशासम्भवात्पकरणबाधकत्वं तथाऽप्येषूदाहरणेषु विरोधम्या- स्पष्टत्वान्मन्त्रवाक्यस्य प्रकरणबाधकत्वे ऽभिहिते च कैमुतिक-