पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- तत्रापि न सर्वासु गच्छति, चोदकप्राप्तपाञ्चदश्यबाधप्र- सङ्गात् । किन्तु प्रत्यक्षश्रुतसाप्तदश्यासु मित्रविन्दादिष गच्छति । यथाऽऽहु:- एवं च प्रकृतावेतत्पाञ्चदश्यं प्रतिष्ठितम् । विकृतौ च न यत्रास्ति साप्तदश्यपुनःश्रुतिः ॥ इति। ( तन्त्रवार्तिकम् १०७८) न च वाक्यवैयर्थ्यम् । अनारभ्याधीतस्यैव साप्त- दश्यस्य मित्रविन्दादिप्रकरणस्थेन वाक्येनोपसंहारात् । उपसंहारो नाम सामान्यप्राप्तस्य विशेषे नियमनम् । यथाऽऽहुः- सामान्यविधिरस्पष्टः संहियेत विशेषतः । इति । ( तन्त्रवार्तिकम् १०२०) तत्रानारभ्यविधिः सामान्यविधिः, मित्रविन्दादि- सम्बन्धः तृप्तः न तस्य प्राकरणिकेन बाधः । यथा “अथातो ऽग्निमग्निष्टोमेनानुय जति" इति विहितानेरुत्तवेद्याः। नचैवं वाक्य- चिनियुक्तेनाग्निना प्रकरणविनियोज्यायास्तस्या एवं बाधाप- त्तिः । सत्यपि तस्याः प्रकरणविनियोज्यते अग्निष्टोमपदार्थमहि- म्ना धातोः ऋतुविशेषपरतां निणर्णीय विनियुञ्जतो वाक्यस्य वि- लम्बितप्रतिकत्वात् । चोदकेति। पाञ्चदश्येन बाध इति विग्रहः। वलीयो हि तत् क्लोपकारकत्वाद् इति द्योतनाय चोदकपातेति विशेषणम् । मामान्येति । सामान्यशास्त्रस्य विशेषान्वये तात्प- यज्ञापनमित्यर्षः। तत्रेति । यद्यप्युभयत्र सामिधेनीनामुद्देश्य-