पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वाक्यप्रमाणम् अतो यत्र चोदकाप्रवृत्तिस्तत्रानारभ्याधीतानां सन्निवेशः। साप्तदश्यं त्वनारभ्याधीतमाप न प्रकृतौ गच्छति प्रकृतेः पाञ्चदश्यावरोधात, किं तु विकृतिषु गच्छति । न प्रवेशः । अप्रवृत्तिरिति । नत्रओ व्यत्ययपङ्गीकृत्याचोदकेन चोदकभिन्नमानेन यत्र क्रतुपवेशद्वारस्य जुडादेः प्रवृत्तिः प्राप्ति रिति योज्यम् । तेन न सोमे पर्णतामसक्तिः। भवति च गृहमेधीये, तत्र कल्पमूत्रकारैर्जुहूपदेशात् । अधीतानामित्यनन्तरं समभिव्या. हृतोद्देश्यवशेन कल्प्यक्रतुसम्बन्धानामिति शेषः । तेन “यदाहवनीये जुहोत्येष सप्तदशो यज्ञोऽन्वायत्तः" इत्यनारभ्य विहितस्याहवनीय- स्याश्रावयेत्यादेश्च समाभव्याहारमात्रेणाक्लपक्रतुसम्बन्धस्य जुहो. तियजतिचोदनाचोदितसपस्तक उपदेशसिद्धिः । असंभवात्परं कचिदाहवनीयोपदेशाभावः। यथा पवमानेष्टिषु, निषादेष्टौ, उपनय- नाङ्गहोमेषु, अवकीर्णिपशौ, अक्रतुशेषेष्वतदन्तर्गतेषु चतुर्होनुहोमेषु भाष्यमते ऽग्नीषोमीयानपेक्षाग्नेयाद् वार्तिकमते प्रयाजापेक्षात्त- स्मात्परमापूर्वानुत्पत्तिाकेवलाधानादाहवनीयासम्भवात् । अत्रै वर्णिकस्य अविद्यस्य अकृतविवाहस्याधानाभावात् । “अविप्लु- तब्रह्मचर्यों गृहस्थाश्रममाविशेद्"इति पशोः प्राग्विवाहासम्भवात् । "एषा वाऽनाहिताग्नेरिष्टियचतु)तारः" इति चतुतृिहोमेषु अना- हितान्पधिकारिकत्वात् "ग्रहान् गृहीत्वा सप्तहोतारं जुहोति यः स्वर्गकामः स्यात्स पञ्चहोतारं पुरा प्रातरनुवाकादाम्नधेि जुहुयाद्" इत्यादिषु च तदसम्भवात् । कचित्तु सम्भवतो ऽप्याहवनीयस्य बाधः-यथा पदहोमे ।एवं महापित्यज्ञे आस्वधेत्याश्रवणोपदेशादा- श्रावयेत्यादेबर्बाधो ज्ञेयः । प्रकृतोरति । साप्तदश्यस्य हि सामि- धेनीद्वारेण क्रतुसम्बन्धः कल्प्यः, क्लुप्तश्च पाश्चदश्यस्य प्रकरणे- नेति तस्य बलवत्त्वमित्याशयः । यस्य त्वनारभ्याधीतस्यापि क्रतु.