पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- जुहः क्रियते तदैव तत्साध्यमपूर्व भवति नान्यथेति गम्यते इति न पर्णताया वैयर्थ्यम् । अवत्तहविर्धारणद्वारेति चावश्यं वक्तव्यम् , अ- न्यथा सुवादिष्वपि पर्णतापत्तेः । सा चेयं पर्णताऽनारम्याधीता न सर्वक्रतुषु ग- च्छति, विकृतिषु चोदकेनापि प्राप्तिसम्भवेन द्विरुक्त- त्वापत्तेः, किन्तु प्रकृतिषु । तदुक्तम् “प्रकृतौ वा दिरु- क्तत्वाद् इति (पू० मी० अ० ३ पा० ६ स. २)। अत्र विकृतिर्यतोऽङ्गानि गृह्णाति सा प्रकृतिः'इति न प्रकृतिशब्देन विवक्षितम्, गृहमेधीये पर्णताया अ- प्राप्तिप्रसङ्गात, न हि गृहमेधीयाकाचन विकृतिरङ्गा- नि गृह्णाति मानाभावात, किं तु चोदकाद्यत्राङ्गाप्राप्ति- सत् कर्म प्रकृतिशब्देन विवक्षितम् । यथा दर्शपूर्णमा- सौ । तत्र हि न चोदकादङ्गप्राप्तिः, प्रकरणपठितैरेवा- डैनैराकाङ्ख्यात । गृहमेधीयादिष्वपि न चोदकादङ्गप्रा- प्तिः । क्लुप्तोपकारैरेव आज्यभागादिभिर्नराकाझ्यात् । दिपदविनियोजकमन्त्रगतवाक्यस्थासङ्ग्रहापत्तिः, तेषां शेषवाचित्वा- भावादिति शक्यम् । तदर्थानामपि मन्त्रकार्यभूतविशिष्टनिर्वापप्रकाश- नद्वारेण निर्वापशेषत्वाभ्युपगमात् । इयांस्तु विधिवाक्यान्मन्त्रवाक्ये भेदः-यद् विधिवाक्ये श्रुतिमात्र कल्प्यं मन्त्रवाक्ये तु सश्रु- तिकं वाक्यान्तरम् । मन्त्रे सत्या अपि द्वितीयादेविधिहीनाया वि- नियोलकत्वाभावात् । अत एव मन्त्रगतवाक्यलक्षणे ऽभावान्तस्य