पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६२ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- सम्भवतीति सामर्थ्यस्यापि कल्प्यत्वेनापजीव्यत्वात । अतस्तैर्यावत्सामर्थ्य कल्पयित्वा श्रुतिः कल्प्यते ता. वदेव क्लुप्तेन सामर्थ्येन श्रुति कल्पयित्वा विनियोगः क्रियते इति तस्य प्राबल्यम् । अत एव- "स्योनं ते सदनं कृणोमि घृतस्य धारया सुशेवं कल्पयामि”इत्यस्य सदनाङ्गत्वं लिङ्गात, न तु वा- क्यात्सादनाङ्गत्वम्, तस्य दौर्बल्यादिति । प्राकृतलक्षणासम्भवात्मिध्येदनूहा नेवारतण्डुले चित्र "धान्यमसि" इत्यस्य, वायव्ये तु तरसमयोष्विव न तयेति चेत् । न । आग्नेयः पशुन ज्योतिष्टोम इति कृत्वाचिन्तात्वाद्दाशमिकविचारस्य । उक्तंच तथा तत्रैव मित्रैः-सम्भवति तथासत्यप्रसक्तोस्कर्षे निषेधा- सम्भवेनोक्तवचसो ऽनुहपरत्वमिति दिक । भक्षानुवाके पति तानां "भक्षो हि"इति "नृचक्षसम्' इति "हिन्न मे" इत्यूप- क्रमकाणां " सध्यासम्" इति, “अवख्येषम्'इति, “पा मे ऽवाङ्गा- भिमति गाः"इत्यन्तानां वाक्यानां समाख्याप्राप्तभक्षणाङ्गत्वं लिङ्गा- वगतहणावेक्षणसम्यग्जरणागत्व ध्यते । नचाविहितग्रहणादेरन नुष्ठेयत्वात् मन्त्रप्रकाश्यत्वासंभवः । भक्षणविध्याक्षिप्ततयाऽनुष्यत्वा- त् । तत्प्रकाशनसमर्थमन्त्रकल्पितविधिना वा नियमन तद्विधानात् । नचैः वं मन्द्रादेस्तृप्यस्वित्यन्तस्यलिङ्गानुप्त्यङ्गत्वं स्यान्न भक्षणात्वमिति शक्यम् । ग्रहणादिवत्तृप्तेभक्षणयवान्ययत्नापेक्षोत्पत्तिकस्वाभावेन पृथक्मकाशनानपेक्षत्वात् । तस्मायुक्तः सूक्तवाकस्य दर्शपूर्णमासयो- रिच भक्षानुवाकस्य ग्रहणादिषु लिङ्गादिभज्य विनियोगः । एवं काम्ययाज्यानुवाक्याकाण्ड आग्निवारुणीष्टियाज्यानुवाक्यानन्तरं