पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- लिङ्गेनाङ्गत्वम् । लेन बाधायामुदाहरणत्वं पृषमन्त्रे एतैरेव दर्शितम् । “उपहूत उपव- यस्व"इति क्रमेण पठितयोर्मन्त्रयोनितिक्रमकानुज्ञापनानुज्ञे प्रति यथाक्रम प्रसक्तमत्वं विपर्ययविनियोगं कुर्वता लिङ्गेन बाध्यते । नन्वेवं “त्वं ह्यग्ने प्रथमो मनोता"इति मन्त्रः क्रमप्राप्तमग्नीषोमीयपश्व- त्वं विहाय लिङ्गादाग्नेयसवनीयाङ्गं स्यात् । आनर्थक्यतदङ्गन्या- | यसहकृतप्रकरणेन ज्योतिष्टोमीयपश्चङ्गमेष इति सामान्यसम्बन्ध. सम्भवात्, “मनोतायै हविषो ऽवदीयमानस्यानुबहि"इति प्रेषे पशुदे- वतावाचित्वेन निर्णीतस्य मनोतापदस्यह श्रवणेन सोमावागावा- सम्भवात् । नच “यद्यप्यन्यदेवत्यः पशुराग्नेय्येव मनोता कार्या' इति श्रुतिर्लिङ्गप्राप्तोत्कर्ष बाधत इति शङ्मयम् । तृतीयादिविभक्तरिहाभावात्, वाक्यस्य च लिङ्गबाध्यत्वात्। वायव्ये पशावूहननिषेधार्थत्वेनानर्थक्या- योगात् । अन्यथा ऽऽग्नयीनिरासार्थस्याग्नेय्यवेत्येवकारस्यानर्थक पात् । "नमूहेद्"इतिनिषेधवशेन चोदकमाप्ताग्नेयमन्त्रसक्तिरूपस्योहस्य निषेधे तु सम्भवति तस्यार्थवचम् । तस्मादुत्कर्ष एव मनोतामन्त्रस्य युक्त इति चेत् । न । कार्यवेति व्यवहितान्वये सत्येवकारश्रुत्यैवो. स्कर्षनिषेधात् । तृतीयाश्रुतिर्हि प्रकृतयागे विनियोगमुखेनोत्कर्षनिषेध कुर्यात् इयं तून्कर्षनिषधमुखेन प्रकृते विनियोगं करोतीति फलतो न विशेषः । युक्ततरश्च मंत्रब्राह्मणयोर्व्यवहितप्रधानविध्यन्वयादेव. कारमात्रस्य स्ववाक्ये व्यवहितान्वयः । नन्वेवं वायव्ये पशौ कथ. मनूहो मनोतामन्त्रस्य उक्तश्चासौ "मनोतायां तु वचनादवि. कार:" ( अ० १० पा० ४ अ० २२ सू० ४२) इनि दाश. मिकाधिकरणे । नचान्यायनिगदत्वाहहुवचनान्तपाशपदवदनूह- सिद्धिरिति न्यायसुधोक्तं साधु । देवताधिष्ठानस्याग्नेः पाशबहुत्वव- दसमवेतत्वाभावात् । नच पाशानिति शसावयवसंख्याया इवाग्निप. देन देवताया लक्षणयैव प्राकृतायाः प्रकाशनं स्यात् विकृतावित्या- कूतम् । एवमपि यत्रैन्द्राग्नादौ प्रकृतिवद्देवतात्वाधिष्ठानमग्निस्तत्र २१