पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- तसिद्धं प्रमाणान्तरसिद्धसामान्यसंबन्धस्य पदार्थस्य वि- नियोजक लिङ्गमिति । तत्र मन्त्रविनियोजकं लिङ्गं मुख्ये एवार्थे विनियोजकं न गोणे, मुख्यार्थस्य प्रथममु. पस्थितत्वेन तत्रैव विनियोगबुद्धौ पर्यवसन्नायां पु- नौणेऽर्थे विनियोगकल्पनायां गौरवप्रसङ्गात् । अ- त एवं बर्हिर्देवसदनं दामि"इति मन्त्रः सामर्थ्यात्कुशल- वनाङ्गम् , तेषा मुख्यत्वात, न उलपराजिलवनाङ्ग- मित्युक्तम् । तदिदं लिङ्गं वाक्यादिभ्यो बलवत् । तेषां हि न साक्षादिनियोजकत्वं किं तु लिङ्ग श्रुति च कल्पयित्वा । न चासमर्थस्य श्रुतिं कल्पयित्वा विनियोगकल्पना स्तु नानुलोमसङ्करोत्पन्ने रूढिः, रथमूत्रवास्तुविद्याध्ययनत्तिता चति शङ्खवचनावगतरथकरणवृत्तिकस्य निर्मन्थ्यन्यायेन रूट्यसं- भवात् । प्रमाणेति । विनियोजकलिङ्गव्यक्तिभिन्नं मानं प्रमाणा- न्तरम् । भवति हि "एकविंशतिमनुब्रूयाद्" इति विवृद्धसामिधेनीक- विकृतौ संख्यासामर्थ्येन चोदकप्राप्ताधिकषऋचां क्रतुसम्बन्धे ऽत्र- गते ऽग्निप्रकाशनसामर्थ्यवशेन तद्विशेषग्रहणम् । इयांस्तु भेदः-प्रक- रणसमाख्याभ्यामुक्तस्थलेऽनिर्णीतद्वारविशेषो निर्णीतक्रतुविशेषश्च सम्बन्धो बोध्यते संख्यासामर्थेन तु अनिर्णीतशेषविशेषः । उल- पमुशीरणं पृष्ठयास्तरणाङ्गम् । असमर्थस्येति । प्रकृतशेषिस- म्बन्धयोग्यतया ऽनिर्णीतस्येत्यर्थः । वाक्यबाध्येषु प्रकरणस्य लि-