पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५५ लिङ्गदैविध्यम् । अत एव “वर्षासु रथकारोऽग्नीनादधीतइत्यत्र रथकारशब्देन सौधन्वनापरपायो वर्णविशेष उ- च्यते, रूढेः प्राबल्यात,न तु रथं करोतीति व्युत्पत्त्या द्विजातयः, योगस्य दौर्बल्यादित्युक्तं षष्ठे । तस्माद्युक्तं समाख्यया सामान्यसम्बन्धेऽवगते सामर्थ्यात्पूषयागसंबन्धः पूषानुमन्त्रणमन्त्राणामिति । यथाऽऽड:- यागानुमन्त्रणानीति समाख्या क्रतुयोजिका। तस्माच्छक्त्यनुरोधेन प्राप्तिस्तद्देवते क्रतौं' ॥इति । ( तन्त्रवार्तिकम् ७६८) | ननु 'माहिष्येण करण्यां तु रथकारः प्रजायते' इतिस्मृतिप्रसिद्ध स्यैव रूठ्या ग्रहणं युक्तम् , क्षत्रियवैश्यानुलोमानन्तरोत्पन्नो यो रथकारस्तस्येज्याधानोपनयनसंस्कारक्रियाश्चेति शङ्केन विहितोप- नयनस्य तस्य विद्यासम्भवात् तदशेनैव वैदिककर्माधिकारितया ऽपराकोयुक्तस्य संस्कृताग्निसाफल्यसम्भवाच्च शूद्रादौ हि तत्कनु के- ऽग्निसाध्यकमणि "मस्तु शूद्रस्य"इत्यादिलिङ्गोपपत्तश्चेति कर्कविद्या- रण्पमतानुसारिनिराकरणाय सौधन्वनेति । स्थकाराधाने हि "ऋभूणां त्वा" इति मन्त्रः पठ्यते “सौधन्वना ऋभव" इति मन्त्रे च सामानाधिकरण्याभुसौधन्वनशब्दयोः पर्यायत्वम् । प्रसिद्धश्च सौधन्धनशब्दो व्रात्यवैश्योत्पन्ने, व्रात्यात्तु जायते वैश्यात्सुधन्वाचार्य एव चेति स्मृतेः। अतः षष्ठान्त्यन्यायेन तदधिकारनियमे सिद्धे ऽग- स्याग्निगुणकाधानस्य स्वर्गाय विधिराश्रीयत इति भावः । वस्तुत-