पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५८ भाट्टालङ्कारसहितमीमांसान्यायप्रकाश ख्यातः प्रकरणं बलीयस्तथाऽपि नस्य लिङ्गेन बाधि- तत्वात् समाख्याया दुर्बलाया अपि प्रबललिङ्गाश्रि- तत्वेन प्राबल्यात्मैव सामान्यमम्बन्ध प्रमाण सम्भ- वति,दुर्बलस्य प्रबलाश्रितस्य प्रावल्यात् । अत एव श्रुत्यपेक्षया दुर्बलाया अपि स्मृतराचमनरूपप्रबलपदा- र्थाश्रितत्वेन प्राबल्यात्पदार्थधर्मगुणभृतश्रीतकमत्यागन वेदकरणानन्तरं क्षुत आचमनमव कामित्युक्त- म् । यथाऽऽहुः-- "अत्यन्तबलवन्तोऽपि पौरजानपदा जनाः । दुर्बलैरपि बाध्यन्त पुरुषैः पार्थिवाश्रितः ॥ इति । ( तन्त्रवार्तिकम ८५३ ) यत्तु पूषेतिशब्दः कथं चिदग्न्याद्यभिधायीति । तन्न ।तस्य “अदन्तको हिसःइत्यादिवाक्यशेपेण वैदि- कप्रसिद्ध्या च अर्थविशेष रूढत्वात् । रुढश्चावयवार्थी- लोचनसव्यपेक्षाद्योगाबलीयस्त्वात् । ॥ बलाबलज्यायस्त्वं दृष्टान्तयति अत इति । यद्यपि सकलपदार्थमा- प्यनुसारित्वात् क्रमप्राप्तराचमनस्य च शुद्धिहेतुन्वन वेदिकरणाङ्गस्य 'स्वाङ्गमव्यवधायकम् इतिन्यायेन क्रमात्रियातकत्वान श्रुतिस्मृत्योरिह विरोधः, तथाऽपि तमभ्युपेत्याकरे निरूपितन्यायस्यायमुपन्यासः। वर्णविशेष इति । ब्रासाद्वैश्याख्यवर्णादुत्पन्नः विशेष इत्यर्थः ।