पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५७ लिङ्गदैविध्यम् । न पूषयागेन सामान्यसम्बधोऽवगम्यते, किं तु याग- मात्रेण, प्रकरणेन तु दशपूर्णमासाभ्यामेव विशेषसम्ब- न्धोऽवगम्यते अतः प्रकरणाद् झटिति तत्सम्बन्ध स्यैवावगतत्वात्तदर्थत्वमेव तेषां युक्तम् । . षेतिशब्दस्य पुष्णातीति व्युत्पत्त्या कथंचिदग्न्याद्यभिधा- यित्वात् । मैवम् । पूषानुमन्त्रणमन्त्रे हि श्रयमाणे एव- मवगम्यते-पूषाभिधानसमर्थत्वादयं मन्त्रस्तत्प्रकाश- नार्थः, लवनमन्त्र इस लवनप्रकाशनार्थः । न तत्र प्रकरणाद्यपेक्षा, येन तेषामुपजीव्यत्वेन प्राब- ल्यं स्यात् । प्रकरणात्तु दर्शपूर्णमासार्थत्वे तस्य वाक्य- लिङ्गश्रुतिकल्पनेन विनियोजकत्वाद् लिङ्गस्योपजी- व्यत्वेन प्राबल्यम् । अतो लिङ्गात्पूषप्रकाशनार्थत्वे ऽवगते तन्मात्रप्रकाशनमनर्थकमित्यपर्वसाधनपूषप्रका- शनार्थत्वं वक्तव्यम । किं तदपूर्वमित्यपेक्षायां या- गानमन्त्रणसमाख्यानुगृहीताल्लिङ्गादपूर्वसम्बन्धिदेवताप्र- काशनार्थो ऽयमित्यवगम्यते । अतो यद्यपि समा- द्धटयति पूर्वतीति । गौण्याऽपि तत्सम्भवाय कचिदिति । लिंगप्रकरणयोः स्वतो विरोधे तद्वतबलाबलमेव लिङ्गसहकारिसमा. ख्यायाः प्रकरणेन बलाबलाज्ज्याय इसत्र प्रमाणबलावलात्प्रमेय