पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- ठादेवमवगम्यते अनेन मन्त्रेण दर्शपूर्णमासापूर्वस- म्बन्धि किञ्चित प्रकाश्यते इति । अन्यथा प्रकरण- पाठवैयर्थ्यात् । किं तदपूर्वसम्बन्धि प्रकाश्यमित्य- पेक्षायां सामर्थ्याद बहिर्लवनमित्यवगम्यते । तद्धि बर्हिः- संस्कारद्वारा पूर्वसम्बन्धीति मन्त्रस्य सामर्थ्यात्तदर्थत्वे सति नानर्थक्यं प्रसज्यते । तस्माद् “बहिर्देवसदनं दा- मि इत्यस्य प्रकरणादर्शपूर्णमाससम्बन्धितयाऽवगतस्य सामर्थ्याल्लवनाङ्गत्वमिति सिद्धम् । पूषानमन्त्रणमन्त्राणां तु यागानमन्त्रणसमाख्यया यागसामान्यसम्बन्धेऽवगते सामर्थात्पूषयागपम्बन्धो- ऽवगम्यते । ननु तवां यावत्समाख्यया पूषयागेन सामान्य- सम्बन्धोऽवगम्यते, तावत् प्रकरणादर्शपूर्णमासाभ्यामेव सामान्यसम्बन्धोऽवगतः, समाख्यातस्तस्य बलीयस्त्वात्। अत एव पौरोडाशिकमिति समाख्याते ब्राह्मण आ- म्नातानामपि प्रयाजानां प्रकरणात्सान्नाय्योपांशुयागा- ङ्गत्वमपीत्युक्तम् । किं च यागानुमन्त्रणसमाख्ययाऽपि भाव इति अवेत्थमुक्तिः। प्रकरणादन्यस्याषि लिङ्गापेक्षितसामान्यसे- म्बन्धबोधकत्वन्दयितुमाह-पूर्वति । पूषानुमन्त्रणप्रभृतयो मन्त्रा इति मध्यपद लोपी समासः । उक्तम्-वार्तिके इति शेषः । ननु न दर्श- पूर्णमासार्थत्वं युक्तं पूषपदस्य तद्देवतापकाशनसामादित्याशमा त