पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लिङ्गवैविध्यम् । १५५ तच लिङ्गं बिविधम्-सामान्यसंबन्धबोधकप्रमाणा- न्तरानपेक्ष तदपेक्षं च । तत्र यदन्तरेण यन्न सम्भवत्येव तस्य तदङ्गत्वं तदनपेक्षकेवललिङ्गादेव। यथाऽर्थज्ञानस्य कर्मानुष्ठानाङ्गत्वम् । न हि अर्थज्ञानमन्तरेणानुष्ठानं सम्भवति । यदन्तरेण यत्सम्भवति तस्य तदर्थ- वं तदपेक्षम् , यथोक्तस्य मन्त्रस्य लवनाङ्गत्वम् । लवनं हि मन्त्रं विनाऽपि उपायान्तरेण स्मृत्वा क- तुं शक्यम् । अतो न मन्त्रो लवनस्वरूपार्थः स- म्भवति, किन्त्वपूर्वसाधनीभूतलवनप्रकाशनार्थः । तत्वं चन सामर्थ्यमात्रादवगम्यते, लवनप्रकाशनमात्रे सा- मर्थ्यात् । अतोऽवश्यं प्रकरणादि सामान्यसम्बन्धबो- धकं स्वीकार्यम् । दर्शपूर्णमासप्रकरणे हि मन्त्रस्य पा- यमपुगेडाशयागाङ्गत्वं प्राप्नुवत् सान्नाय्याङ्गशाखा वार्थत्वं बोधय- ल्या श्रुत्या बाध्यते 'इषेत्वेति शाखां छिनत्ति' इति । अत्र च य- पपि इतेरितिहेतुप्रकरणप्रकर्षादिसमाप्तिवित्यादिकोशे तृतीयार्थ- चाचित्वास्मरणान्न श्रुतित्वम् , निराकृतं च तद् "हविष्कृदेहीति त्रिरचनन्” इति वचसि मन्त्रस्य श्रौतहन्त्यङ्गत्वाधियं निराकुर्वद्भिः पाचीनः, तथाऽपि द्वितीययैव समाख्यावाधोपपत्तिः । तञ्चेति। यद्यपि श्रुतिरपि काचित्सामान्यसम्बन्धबोधकं मानान्त- स्मपेक्षते अत एव एकाग्नेय्यधिकरणे प्रकृताग्नेय्येव "आग्नेय्याऽऽग्नी. प्रमुपतिष्ठते" इयत्र श्रुत्या विनियुज्यत इत्युक्तम् , तथाऽपि तत्सापे शत्वाभिमतलिङ्गस्येव तस्या अपि न तदन्तरेण विनियोगशक्तिकुण्ठी- .