पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाहालङ्कारसहितमीमांसान्यायप्रकाशे- "सामर्थ्य सर्वभावानां लिङ्गमित्यभिधीयते इति। ( तन्त्रवार्तिकम् १२५) तेनाङ्गत्वं यथा “बहिर्देवसदनं दामि" इत्यस्य लव नाङ्गत्वम् । स हि लवनं प्रकाशयितुं समर्थः । एतापपरिव्याणशेषो हि रशना श्रुता । सह धमैंने सा याति क्रमेण पशुशेषताम् ॥ याति सर्वत्र गच्छतीति साधारणार्थ एतच्छब्दः । अष्ट्रक- स्वभावयूपमते हि वानियमन्यायेन साधारणतत्प्रयुक्ता रशना तद्धर्मा भवन्ति साधारणाः । मतान्तरे तु अश्ववालादिधर्मविधौ बर्हिःपदेनेव यूपपदेन स्वार्थसाध्यापूर्वत्रय लक्षणात् साधारण्य पिति बोध्यम् । एवं च यद्यपि यूपधर्माणां बर्हिर्धर्माणां चो. पदेशसाधारण्यं तुल्यं तथाऽपि पश्चपूर्वेस्तन्त्रेण काष्ठमनुष्ठाप- यद्भिस्तबारेण तद्धर्मा अपि तथैवानुष्ठापयितुमुचिता इति ते. ध्वेकादशे तन्त्रव्यवहारः । उपसदग्नीषोमीयापूर्वैस्तु वचनादा. तिथ्याकालोत्पाद्यवहिर्व्यक्तिशेषितां गतैरपि तुषोपवापवत्ताम- नुष्ठापयद्भिस्तद्वत्तदर्मा अपि नानुष्ठाप्यन्त इति तेषु द्वादशे प्र. सङ्गव्यवहारः । तादृशव्यक्तिनाशे ऽपि स्वपरसाधारणव्यक्त्य- न्तरं प्रयोक्तुमशक्तैरपि यथातिदेश प्रत्येकं बर्हिः प्रयुञ्जद्भिर- विशेषावगतशेषत्वा धर्मास्तत्र शक्यन्ते प्रयोक्तुमिति साधारण- बर्हिषि चातुर्यिकमप्रयोजकत्वम् , धर्मेषु द्वादशोक्तं प्रसङ्गित्व- मिति विवेकः । प्रयुक्तिसामर्थ्यभावाभावकृतमेव ह्यप्रयोजकपसङ्गि- नोर्भेदमभिप्रेत्योक्तं पूर्वाचाय-परार्थे त्वप्रयोजकम्। एवमेव प्रस- अः स्याद्विद्यमाने स्वके विधौ' इति । दर्शपूर्णमासप्रकरणे प्रथमपठि. तस्य क्रियाविशेषशून्यत्वेनास्पष्टलिङ्गतया स्वतन्त्रक्रमप्रकरणा- निर्जीतविनियोगस्य मन्त्रस्य तत्सहकृतसमाख्याबलेन दार्शिकम-