पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाहालङ्कारसहितमीमांसान्यायप्रकाशे- या श्रुत्या विनियोगस्य कृतत्वात् तेषां कल्पकत्व- शक्तिविहन्यते इति श्रुतेः प्राबल्यम् । अत एव “ऐन्द्रया गार्हपत्यमुपतिष्ठते" इत्यत्र यावल्लिङ्गाद् ऐ. न्द्रया इन्द्रोपस्थानाङ्गत्वं कल्प्यते तावत् प्रत्यक्षया न मन्त्रस्य स्ववाच्यार्थे प्रवेशमिच्छता तत्सिध्यैतत्कल्पनाक्षे- पाल्लवनं केन स्मृत्वा कार्यमित्येवरूपायाः शेषिविध्याकासाया- स्तमन्तरेणानुपयामाच्च भामते विशेषो नेत्याशयेनाह कल्पयत इति । ननु श्रुतेरप्यसमर्थविनियोजकत्वासम्भवेन सामर्थ्यकल्प- कत्वात्कथं प्राबल्यमियाशक्यम् । सत्यम् , तथापि लिङ्गज्ञानं पुरोधाय न श्रुतेविनियोक्तृता श्रुतिज्ञानं पुरोधाय लिङ्गं तु विनि- योजकमिति विनियोगसन्निकर्षात् श्रुतिप्राबल्यमित्याशयेनाह- तावदिति । मन्त्रादेराकासोच्छेदात्कल्पकत्वशक्तिविघातः । अत एवेति । न चैन्द्री गार्हपत्याङ्गमिति बोधेऽस्य पदान्तरालोचन लभ्यत्वाद्वाक्येनैव विनियोग इति शङ्काम् । अङ्गाङ्गिभावनिरूपकयोः पदान्तराधीनत्वे ऽपि तत्स्वरूपस्य श्रुतिगम्यत्वात् । नन्वेवं श्री- तस्याङ्गाङ्गिभावस्य लैङ्गिकनिरूपकान्वये ऽप्यविरोधान्न श्रुतिलि- क्योर्विरोधः स्यादेवं यदि प्रमेयविरोधनिबन्धनाविह मानयोर्वाध- विरोधौ स्याताम् । दुर्बलमानजन्यविनियोगमूलकल्पनोच्छेदनिमित्तौ तु तौ जायेते अवगतसागान्यसम्बन्धयन्या किं कार्यमियाका- झाबलेन लैंगिकश्रुतिकल्पनायोद्यतस्प ब्राह्मणान्तर्गतमन्यत्येव प्रथ- मं श्रुतवत एतन्मूलकविनियोगेनैव नैराकांक्ष्यसम्भवान स्वबु. ध्या कल्पनमुचितमिति बुध्या तत्कल्पनादुपरमः । तस्मादुपपनः श्रुतिलिंगयोरिह विरोधः। श्रुत्या लिंगबाधं वदता च लिंगबाध्यानां वाक्यादीनां सुतरां तया बाध इति सूचितम् । तद्यथा आरुण्यस्य वाक्यादेरेकहायन्यङ्गत्वं सिध्यच्छौतेन क्रयाङ्गत्वेन बाध्यते “एक-