पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५० भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- यथाऽऽदु:- "सङ्ख्यायां कारके वा धीविभक्त्या हि प्रवर्त्तते । उभयं चात्र तत्सिद्धं भावनातिविभक्तितः" इति। यत्र तु नाख्यातेन तद्गता सङ्ख्योच्यते तत्र भवत्येव तृतीया । यथा देवदत्तेन ओदनः पच्यते इति । तस्मान्न कर्तुरनभिधाने किं चिद् दूपणमित्य- कावसरः, तथाऽपीतरच्याख्ययोनिर्दोषत्वसिद्ध्यर्थमेष उपन्यास इति बोध्यम् । ननु अनुशासनात्प्राप्नुवन्ती तृतीया न निष्पयोजनत्वेन निवारयितुं शक्या प्रथमाया अपि निवारणापत्तेः, । प्रातिपदिक- साधुत्वार्थस्य च प्रथमातृतीययोरावशेषाद् इसाशङ्ग्यानभिहिताधि- कारानुवृत्तस्यानभिहितपदस्य तात्पर्येण तिङाद्यप्रतिपादितत्वमर्थः, अभिधानाख्य शब्दव्यापारवाचिना ऽभिदधातिना तदेकार्थसमवे. ततात्पयाख्यशब्दव्यापारलक्षणोपपत्तेः । तच्च कोदेरेव विशेष- ण न सङ्ख्यायाः । तेन देवदत्तः पचति, पक्ताइति वा, चैत्रोम- त्रश्च गच्छत इत्यादिप्रयोगोपपत्तिरित्याशय नोपसंहरति तस्मा. दिति । यदि च कर्ताऽऽख्यातवाच्यः स्यात्समिदादिषु सनि पातित्त्रलिप्सया कर्बर्थत्वेन विधिः स्यात् । भवविति चेत् "स्थाणी स्थावाहुतिं जुहोति" इति विहिताऽऽहुतिः कर्तुः संस्कारिकैव स्यात्. न यूपस्य । यूपार्थत्वं हि तस्या श्रुतिबलेनोक्तं दशमे । नापि दृष्टा- र्थत्वलिप्सया किंतु सन्निपातित्वलिपयोक्तम् । वक्ष्यति चैतत् तुल्यं च सन्निपातित्वं युपार्थ स्वकर्थत्वयोः । इयांस्तु कर्तरि यू- पाद्विशेषो यदयं जुहोतीय भिहितः क्रियया च साक्षात्सम्बध्यः । नचास्तु यूपार्थत्वसिद्धान्तभङ्ग इति शङ्मयम् । “अतस्त्वं देव वनस्पते शतवल्शो विरोह"इत्याहुतिमन्त्रे देवादिपदाभिहितयुपगतातिश-