पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तेन च कतुराख्यातावाच्यत्वसिद्धान्तः। १४९ यत्तुक्तम्-कर्तुरनभिधाने देवदत्तेन पचतीति तृती- याप्रसङ्ग इति । तन्न। तृतीया हि कर्तुःप्रतिपत्त्यर्थं तद्गतसं- ख्याप्रतिपत्त्यर्थं वा ?। तत्र कर्ता तु भावनाक्षेपादेव लभ्य- ते इति न तत्र तृतीयापेक्षा । तत्सङ्ख्या तु आख्यातेनै- व प्रतीयते इति न तत्राप्यपेक्षा । लक्षयित्वा कर्नादौ तत्संख्यायां च लकारो विधीयते । तिवा- दीनां शत्रादीनां मध्ये कस्य लादेशस्य का संख्या वाच्येत्यपेक्षायां साकांक्षयेकादिसूत्रेण वाक्यैकवाक्यत्वं कल्प्यते, ककारे संख्यावाचित्वानुशासनमेकवचनादिमज्ञायोगितिवादिविष- यमिति निर्णीत कादिवाचित्वानुशामनांशस्यापि तद्विषयत्वे गौ- रवात् तादृशसंज्ञाहीनशत्रादिविषयत्वं तस्य भवति । ततश्च भा- वकर्मणोरपि शत्रादिर्लभ्यते इति क्रीयमाण इत्यादिप्रयोगोप- पत्तिः । अन्यथा लकारमूत्रस्य संख्यावाचित्वमात्रपरत्वे कर्त- रि शत्रादिप्राप्तिसम्भवे ऽपि न भावकर्मणोस्तत्माप्तिः स्यात् । यो- तितं च लकारसूत्रस्य कर्तुराख्यातवाच्यत्वे प्रामाण्यप्रतिषेधो. क्या शत्रादिवाच्यत्वे प्रमाण्यं तथाऽपातिग्रन्थे । न चैवमापे स्थानि- नोवाचकत्वमते कथमेकस्मिन् लकारे संख्यावाचित्वकर्तृवाचित्वव्य. वस्था स्यादिति शक्यम् । पदोपस्थापितपदार्थेभ्य एव शाब्दधीरिति नियमवदादेशविशेषेण स्थानितयोपस्थापितलकारादेवार्थविशेषधी- रिति नियमसम्भवात् । अत एव तिवादिस्मारितलकारस्यैकत्वा- दिवाचित्वेनैकवचनादिव्यपदेशसम्भवाल्लकारस्य तत्तद्वचनात्मक त्वनिर्देशः संगच्छते । शक्यते च वक्तुं "तान्येकवचन द्विवचनबहु- वचनान्येकशः" इतिसूत्रमादेशेषु संज्ञा अन्वर्था विदधत्तत्स्थानि- धपि ता एवाक्षिपतीति । यत्विति । यद्यपि 'लकारसूत्रस्थलकारः कीयभिधायकः' इति परिभाषापरत्वेन व्याख्यायां नैतच्छङ्का-