पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४८ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- थै प्रमाणम् , “धेकयोर्दिवचनैकवचने', “बहुषु बहुव- चनम्" इत्यनेनास्याः स्मृतेरेकवाक्यत्वात्। उक्ते ऽर्थे तात्पर्यग्राहकमाह-येकेति । अनेनेत्यनन्तरं मूत्रद्वयेनेति शेषः । अत्र हि द्यकादिशब्दा भावप्रधानतया संख्यापराः, अन्यथा व्ये केष्वित्यापत्तेः । बहुः समुद्रो, बहुरोदन इत्यादी प्रसिद्ध वैपुल्यमहत्वात्मकबहुत्वपरिहारेण द्वित्वाधिकसंख्यात्मकबहुवचः नप्राप्त्यै परं बहुत्व इयस्य स्थाने बहुष्धितिनिर्दिदिक्षुस्त दैकरूप्याय व्येकयोरित्युक्तवान्मूत्रकारः । कस्य द्वित्वादावित्य- पेक्षायां च लकारसूत्रैकवाक्यतया उक्तविधया कल्पनाद्भव- ति लकारमूत्र संख्यावाच्यत्वग्राहकमित्यर्थः । नेदं पदैकवाक्यत्व(१) मिति भ्रमितव्यम् । एकवाक्यत्वोपन्यासावसरे वार्तिक कृद्भिः “या. वज्जीवमग्निहोत्रं जुहोति" इति उत्सर्गापवादयोर्वाक्यैकवाक्यताया दृष्टान्तयोपन्यासात् । तद्व्याख्यानं च कुर्वता न्यायसुधाकारेण प्र- कृते वाक्यैकवाक्यताया एव स्पष्टीकरणात् । एतैरपि केवलल. कारमूत्रं संख्यावाच्यत्वे मानमिति प्रतिज्ञाकरणात् । अतो ल- कारमूत्रे कळदिपदोत्तरविभक्त्या कादिगतसंख्यासामान्य (१) इदं पदैकवाक्यत्वमिति न भ्रमितव्यमिति योजना। एकवाक्यत्वं हि त्रिधा भवति पदैकवाक्यत्वम् , अर्थैकवाक्यत्वं, वाक्यैकवाक्यत्वमितिभेदात् । निरूप्यनिरूपकभावापन्नविषयताप्रयो- जकपदघाटतत्व आद्यम् , यथा नीलं घटमानयेत्यत्र नीलघ. टपदार्थवृत्तिविषयतयाः परस्परं निरूप्यनिरूपकभावापन्नत्वात् । उ. तविधविषयताश्रयबोधकपदघटितत्वे द्वितीयम् । यथा तत्रैव वाक्ये । दीलघटपदार्थयोरुक्तविधविषयताश्रयत्वात् , नीलघटपदयोश्च तदो- धकत्वात् । उपजीव्योपजीवकभावापन्नविषयताप्रयोजकपदघटितत्वे त्वन्त्यम् । यथा समिदादीनां प्रयाजानां दर्शपूर्णमासाभ्यामन्वय स्थले । भवति च तत्र परस्परमुपजीव्योपजीवकभावो विषयतानामि. वितास्वत्र पदैकवाक्यत्वमिति न भ्रमितव्यमित्यर्थः ।