पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्तुराख्यातावाच्यत्वासिद्धान्तः । हितान्वयव्यतिरेकगम्यत्वात् । भवतु वा स्मृतिगम्यः तथाऽपि नेयं स्मृतिः कर्तुराख्यातवाच्यत्वे प्रमाण म्, किंतु कर्तुरेकत्वे एकवचनात्मको लकारः, द्वि- वे द्विवचनात्मकः, बहुत्वे बहुवचनात्मक इत्यस्मिन्न- वाच्यवाचकसम्बन्धो नाचार्यरुपदिश्यते । अन्यथाऽनुपपत्त्या हि व्यवहारात्स गम्यते ।। इति । यद्वा भवतु वाच्यार्यकत्वं सप्तम्याः, न तावता लोकादौ प्रसिद्धाख्यातानां कर्तृवाचित्वसिद्धिरिति द्योतनाय हिशब्दः । सम्भवति हि "वृद्धिरादैज्" इनिवत्का लकारवाच्य इति परिभा- षावचनम् । युक्ततरं चैतल्लादेशानामेव वाचकत्वं न लकारस्येति वदद्भिरभ्युपगन्तुम् । उपयुज्यते च देवदत्तः पचतीसादौ तृतीयाम- तिबन्धः । वस्तुतोऽनभिहितेऽपि पारिभाषिकमभिहितत्वमादाय त. निवारणात् । यथाहुः-शास्त्रेऽभिहितवदाश्रयणादनभिहिताधिकार- विहिते विभक्ती न लप्स्यते इति । नचैत्र वाचगावाच्यविवेकासिद्धिः, तस्य मानान्तरगम्यत्वादित्याशयः । तथापीति । इयमित्यनेन "करि कुद्" इत्यादिस्मृतिस्तु भवत्येव कर्तुच्यत्वे मानमिति मुच्यते । तेन वक्ष्यमाणरीया "लः कर्त्तरि"इत्यनेन शतृशान नर्थ- कथनाभावेऽपि न दोषः, कृत्सूत्रेणैव तयोः कर्तृवाचित्वसिद्धेः । अभ्युपगतं चेत्थं कृत्सूत्रस्य येकादिमूत्रकवाक्यत्वासम्भवप्रदर्शन वार्तिके "कृदति इतिसूत्रोदाहरणफलं बदता न्यायसुधाकृता । यदि न कर्तुच्यत्वे प्रमाण तर्हि किं लोहितोष्णीषादिन्यायेन कृतिवाच्यत्वे प्रमाणमिति वदसीति पृच्छति-किंत्विात । ये- कादिसूत्रे संख्योपसर्जनत्वेनापक्षितसंख्येयसमर्पणाभावे साकाङ्क- स्त्रप्रसङ्गान्मैवमित्याशयेन प्रामाण्यविषयान्तरमाह-कर्तुरिति । "