पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- स्वीकार्यमिति वाच्यम् । अनन्यलम्यशब्दार्थत्वस्य व्य- वस्थापितत्वात् । अन्यथा सिंहो देवदत्त इति सामाना- धिकरण्यं मुख्यं स्यात् । किं च आख्यातवाच्यः क- तेति वादिनोऽपि मते देवदत्तः पचतीति सामाना- धिकरण्यं न मुख्यम् । तन्मते आख्यातेन तृतीयाव- निष्कृष्टशक्तिमात्ररूपकर्तृकारकाभिधानात् , शक्तिमद्रव्य- स्याकृत्यधिकरणन्यायेनानभिधानात् । देवदत्तशब्देन च द्रव्यमात्राभिधानात् ! अतश्च भिन्नार्थनिष्ठत्वात्तन्मतेऽपि न मुख्यं सामानाधिकरण्यम् , किं तु लाक्षणिकमेवेति न कश्चिदिशेषः । न च लः कर्तरीति व्याकरणस्मृति- बलादाख्यातवाच्यः कर्तेति वाच्यम् । न हि वा. च्यवाचकभावो, व्याकरणस्मृत्यधीनः तस्य न्यायस- मदादिसामानाधिकरण्यसंग्रहः । नहीति । उक्तं हि वै. याकरणैः-'शब्दार्थाभिधानं स्वाभाविक न परिभाषितव्यमा शक्यत्वाल्लाकत एवार्थावगतेः' इति । अतश्च "कर्तरि कृद् इति सूत्रे सप्तम्या वाच्यलक्ष्यसाधारणज्ञाप्यपरतामङ्गीकृत्य कर्तरीत्यनुषङ्ग- लब्धात्मना "लः कर्तरि"इतिसूत्रेणासत्यपि कर्तुराख्यातवाच्यत्वे शक्यत एव पूर्वमूत्रैकरूप्येण स्वार्थो ज्ञापयितुम् । कर्तरि ज्ञाप्ये लः साधुरिति घटाच्छिद्रत्वे ज्ञाप्ये ऽछिद्रोऽयमिति प्रयोज्यजलाहरणसा- धनमेष इति चेति वाक्यवत् । इत्थं च स्मृत्याऽर्थे ज्ञापिते लादे. शानादेशकृतां कर्त्ता वाच्योऽवाच्यस्तु तिडामिति विवेको माना- न्तरलभ्य इत्याशयः । यथाहुः- .