पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्तुराख्यातावाच्यत्वसिद्धान्तः १४५ यमेनानाक्षेपात् । आख्यातश्रवणात्प्रागपि तृती- यादिविभक्तिश्रवणे करणादिप्रतीतेर्जायमानत्वाच्च । न च शाब्दी सङ्ख्या कथमशाब्देन कर्ताऽन्वेतीति वाच्यम् । कर्तुर्लक्षणाङ्गीकारात् । यथा च लक्षितं तीरं शाब्देन घोषेणान्वेति, एवं लक्षितः कर्ता एक- खेनान्वेष्यति । अत एव देवदत्तः पचतीति सामाना- धिकरण्यमुपपद्यते, कर्तुर्लक्षणाङ्गीकारात् । न च मुख्ये सम्भवति किमिति लाक्षणिकत्वं लक्षणया द्वितीयार्थस्य धात्वर्थे ऽन्वयः । अत एवेशस्थले मत्वर्थ- लक्षणाव्यवहारः प्राचामियलं पल्लवितेन । भावनया कर्तुरिव कारकान्तराणामाक्षेपसम्भवे ऽप्युक्तरीत्या- ऽऽख्याताभिहितसंख्यायाः कर्तृकर्मणोरन्वयव्यवस्थोपपत्तिमभि- प्रेत्य तृतीयादिविभक्तीनां करणादिवाचित्वे हेत्वन्तरमाह आ. ख्यातेति । अथाप्याख्यातोपक्रमवाक्पानुरोधेनाशक्ता एव वि. भक्तयः किं न स्युरिति चेत् । अत्राहुः सत्यप्यव्यापृता शक्तिः कृतार्थत्वान्न दुष्यति । असत्यास्तु फलं तस्याः प्रार्थितं दुर्लभं भवेद् ।। इति । कथमिति । यद्यप्पाक्षेपमात्रोपस्थापितकर्तृविशिष्ट संख्याभि- धानं शक्यते कर्तुमाख्यातेन, यथाहुः-'विशिष्टग्रहणं नेष्टम्' इत्यादि, तथाऽपि तादृक्संख्याभावनयोयुगपत्प्रतीत्यसम्भवमभिप्रेत्येदम् । यत्तु भवदेवेन युगपदभिधानाभावेऽपि मूक्ष्मकालभेदस्य दु. लक्ष्यत्वेन गोशब्दाभिधेयसामान्यविशेषयोरिव युगपत्यतीत्युपप- तिरित्युक्तम् , तत्तु शब्दस्य विरम्यबोधकत्वासम्भवाद् दृष्टान्ते च निरूढलक्षणया युगपत्प्रतीत्युपपत्तेपेक्ष्यमित्याशयः । चतीति । प्रभृत्यर्थेनेतिकरणेन मध्यमादिव्यवस्थापयोजकयु-