पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाहालङ्कारसहितमीमांसान्यायप्रकाशे- नचाख्यातेन भावनाभिधाने यज्यादीनां क्रिया- नभिधायित्वादुक्तधातुलक्षणासम्भवः । धात्वर्थस्य कारकान्वयि- त्वात्मकक्रियात्वाभावे ऽपि व्यापारत्वात्मकक्रियात्वसत्त्वेन तदु- पपत्तेः । स्त्रीकुर्मो वयं व्यापारफलोभयवाचित्वं धातूनाम् । तदा श्रययोस्तु भावनाक्षेपलभ्यत्वेन स्वीकुर्म आख्यातवाच्यताम् । इ- त्यं चौदनं पचतीत्यत्र धात्वर्थव्यापारविशिष्टभावनाश्रपलक्षक- त्वमाख्यातस्य, धात्वर्थफलाश्रयवाचकत्वं च द्वितीयायाः । प- च्यत इत्यत्र तु फलाश्रयलक्षकत्वमाख्यातस्य ताहरव्यापाराश्र- यवाचकत्वञ्च समाभिव्याहृताया देवदत्तेनेति तृतीयाया इति परमतो भेदः । फलस्य च गच्छतिसंयौत्यवहन्तिकरोती. त्यादौ तत्तत्संयोगोत्पत्त्यादिभेदेनाभिधानात् तदाश्रयस्य प्राप्यो- साद्यादिव्यपदेशः । ईप्सितानीसितभेदस्तु द्वितीयादिशाक्तगम्यो मानान्तरगम्यो वेत्यन्यदेव । तत् सत्यपि धात्वर्थफलाश्रयवाचित्वे द्वितीयाया द्वितीयार्थस्य न धात्वर्थे ऽन्वयः, किन्त्वाख्यातार्थ शरीरान्तर्गतभवनाख्यपयोज्यव्यापारे । एकभावनान्वायनोः परं कर्मकरणीभूतयोरोदनपाकयोः पाठिकान्वयदशायामोदनादेर्धा- त्वर्थफलाश्रयत्वमतिपत्तेस्तदाश्रयवाचित्वमोदनोत्तरद्वितीयायां व्य- वहियते । इत्थं हि पाकान्वयः फूत्करणादिव्यापारेण विक्लि- चिविशिष्टात्मनौदनो भवतीति । सम्भवति च तादृशपचन- निकापिताश्रयताया ओदननिष्ठाया विक्लित्तिनिरूपितत्वम् । एतेन पच्यत इत्यत्र फलाश्रयलक्षकत्वे सत्यपि न लक्षिताश्रयस्य फ- ले ऽन्वय इति ध्येयम् । संगच्छते चैवं सति कारकाणां क्रियान्व- यनियमः । यत्र त्वधात्वर्थफलशालिनो द्वितीयान्तेन निर्देशः यथा “अग्निं चिनुते" इति तत्र न पाठिकान्वयदशायामपि फलान्वयित्वं किन्तु फलाश्रयस्थलद्वारेण भाव्यत्वम् । सत्यपि तादृशफलशालिनि द्वितीयादिनिर्दिष्टे यत्र कामशब्दादिना भावनाभाव्यावगतिः, तत्र तु