पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्तुराख्यातावाच्यत्वसिद्धान्तः । भिधाङ्गीकरणे उपसिद्धान्तः; न स्याच देवदत्तेनेति तृतीयया कत्रभिधानमिति चेत् न । यतो भवद्भिः शब्दशक्तिवैचित्र्यमहि- म्ना यथा कर्तृकर्मणोरभिधानव्यवस्थाऽऽश्रीयते तुल्ये ऽप्या- ख्यातत्वे तथा ऽस्माभिस्तदशेनैव कर्तृकर्मणोलक्षणाव्यवस्था ऽपि शक्यत आश्रयितुम् । तुल्यञ्च विकरणभेदेन शक्तिविशेषावधारणम् । आश्रीयते च शुक्लरूपशब्दयोर्गुणवाचित्वाविशेषे ऽपि शक्तिवशेनैव द्रव्यलक्षणायास्तदभावस्य व्यवस्था । यथाहु:- निरूढा लक्षणाः काश्चित्सामर्थ्यादभिधानवत् । क्रियन्ते सांप्रत काश्चित्काश्चिन्नैव त्वशक्तितः ॥ इति । नन्वेवं शक्त्यन्तरस्वीकारे परमतान्न विशेष इति चेत् । परिहतमेतद्भवदेवेन अभिधानशक्तेरेवाभिधेयाविनाभावोपस्थितार्थ- तात्पर्यरूपाया लक्षणाशक्तिशब्दार्थत्वादिति । लक्षणाव्यवस्थातश्च संख्यान्वयव्यवस्थासिद्धिः । यथाऽऽहुः- यथैव कचिदुक्त्वापि कर्मान्यत्र न वक्ष्यति ॥ तथैव तस्य संख्याऽपि शब्दशक्तेयवस्थिता ।। इति । यद्वोक्तन्यायेनाख्यातजन्यप्रतीतिविशेष्यव्यापारान्वये संख्या- न्वयनियमाङ्गीकरणात्तत्सिाद्भिः । केचित्तु वत्सशोणशब्दाभ्यां गवाश्वावनभिधाय तद्गतव- योविशेषरूपविशेषाभिधानवत्कर्तृकर्मप्रत्ययाभ्यां तद्गतसहळ्याभि- धानमङ्गीकृत्य तन्महिम्नैव कर्तृकर्मप्रतीतिव्यवस्थामाहुः। तन्न । अनुभूयेते हि गवाश्वगतौ वत्सत्वरक्तत्वावान्तरभेदी प्रत्यक्षेणे. तिसम्भवतस्तदभिधेयौ, नानुभूयते च सङ्ख्यावान्तरभेदः कर्तकर्मणोः । पथाहु:- न शोणत्वादिवत्सङ्ख्या जातिभेदेषु भिदयते । इति ।