पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- प्रसङ्गात् । न च भावना कारकान्तरेणापि सम्बद्धा तदुज्झित्वा न झटिति कतारमाक्षिपतीति वाच्यम् । सा हि यथा नियमेन कर्ता सम्बद्धा, न तथा कर- णादिकारकान्तरेण, तिष्ठतीत्यादिषु तया तदनाक्षे- पात् । अतः प्रथमं सा कर्तारमेवाक्षिपति न कारका- न्तरम् । अत एव चाख्याताभिहिता सङ्ख्या न का- रकान्तरण सम्बध्यते, तस्य प्रथममनुपस्थितेः । अत एव तृतीयादिविभक्तीनां करणादिवाचित्वम् , भाव- नायास्तैः सह नियतसम्बन्धाभावेन तया तेषां नि- यस्मृतौ प्रकृत्यर्थप्राधान्यव्यवच्छेद प्रतीतेः प्रत्ययार्थ प्रति तस्य गुणत्वमेवेति प्रतीयते । अभ्युपगतं चैतत् प्रामाणिकत्वेन प्रधान- प्रत्ययार्थवचनमर्थस्यान्यप्रमाणत्वात्" इति सूत्रे निर्दिष्टस्मृत्यर्थस्या- शिष्यत्वं वदता पाणिनिनेति, एतदशेन च सम्भवत्परस्पराक्षे. पयोः कस्य प्रत्ययार्थत्वमिति संदेहे प्रकृत्यर्थनिरूपितमाधान्य- भाज इत्यपि सिध्यति नियमः । न चैतस्य तिङन्तेषु वचनो. पग्रहाद्यंशज्ञाप्यार्थोत्तरविषयत्वेनाऽन्यथासिद्धिः शङ्ख्या । पाक- निरूपितप्राधान्यस्य तेषु कदाचिदप्यननुभवात् । ततश्च पचति पक्तत्यत्र प्रकृत्यर्थतया निर्णीतपाकं प्रति कृतितदाश्रययोः प्राधान्यं स्वीकुर्वता तयोरेव प्रत्ययार्थत्वं स्वीकार्य नाश्रय- कृत्योरपि, अभिधान्तरकल्पने ऽतिगौरवात् । प्रत्ययार्थत्वमेव च तयोः स्वीकार्य नतु कृतेः प्रकृत्यर्थत्वम् , कचित्प्रकृत्यर्थप्राधान्य कचित्प्रत्ययार्थप्राधान्यमिति व्युत्पत्तिभेदकल्पने स्मृतिसंकोचक- ल्पने गौरवादित्याशयः । तैः करणादिभिः । नन्वेवं पच्यत इत्या. दावपि भावनाक्षिप्तका संख्पान्चयापत्तिः, तन्नित्य कर्मा- .