पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४० भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे कर्ता न वाच्यः स्याद्देवदत्तेन पचतीति प्रयोगः स्यात्। तस्मादाख्यातवाच्यः कर्तेति सिद्धम्-"इति पूर्व- पक्षसक्षेपः। अबाहुः स एव हि शब्दस्यार्थो यः प्रकारान्तरेण न लभ्यते, “अनन्यलभ्यः शब्दार्थः” इति न्यायात् । अत एव न गङ्गापदस्य तीरमर्थः, लक्षणयैव प्रति- पत्तिप्तम्भवात् । अत एव च न वाक्यार्थे शक्तिः । एवं चाख्यातवाच्यभावना कर्तारं विनाऽनुपपन्ना त- माक्षिपतीत्याक्षेपादेव कर्तुः प्रतिपत्तिसम्भवे किमिति तदाचकत्वमाख्यातस्य कल्पनीयम् । न च विनिगम- त् । अस्तु वा गुणकर्मत्वं न तावता किंचिदनिष्टमित्येतन्मनास निधा. याह संक्षेप इति । पचतीत्युक्ते प्रतीयमानानां पाकतत्कृति तदा श्रयादीनां मध्ये यावतामभिधाविषयत्वं निर्णीत सेष्वेवायं प्र- कृत्यों ऽयं प्रत्ययार्थ इति विभागः परेण कार्यः, वर्णा- त्मक वर्णाभिव्यक्तं वा ऽखण्डं पदमभिधायकमिति सिद्धा- न्तस्मरणेन वा गवादिपदे न्यायमते गोवायभिधायित्वमिव विशेष. णविशेष्यभावापलं तावदर्थाभिधायित्वं तत्राीकृस्य न कार्यः । उमः ययाऽपि कर्तुरभिधेयत्वं निराकर्तुं नाख्यातपदाभिधाविषयत्वमिति भूमिकामाह सइत्यादिना । आख्यातस्य पचतीत्यादेः प. दस्य । सत्यमाक्षेपलभ्यस्य नाभिषेयत्वं कोऽपि भावनाक्षेपस- म्भषेन विनिगमनाविरहातु कर्तक्रिययोरभिधेयत्वं घूमो ऽत्त आह नचेति । कर्सत्यनन्तरं त्वया ऽऽख्यातपदबाध्यत्वेन स्वी कार्य इति शेषः । 'वः नः' इत्यादिपदरष्टान्तेन पऐइयादिष्टा-