पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४० भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- कर्ता न वाच्यः स्याद्देवदत्तेन पचतीति प्रयोगः स्यात्। तस्मादाख्यातवाच्यः कर्तेति सिद्धम्-" इति पूर्व- पक्षसक्षेपः । अबाहुः स एव हि शब्दस्यार्थो यः प्रकारान्तरेण न लभ्यते, “अनन्यलभ्यः शब्दार्थः” इति न्यायात् । अत एव न गङ्गापदस्य तीरमर्थः, लक्षणयैव प्रति- पत्तिसम्भवात् । अत एव च न वाक्यार्थे शक्तिः । एवं चाख्यातवाच्यभावना कर्तारं विनाऽनुपपन्ना त- माक्षिपतीत्याक्षेपादेव कर्तुः प्रतिपत्तिसम्भवे किमिति तदाचकत्वमाख्यातस्य कल्पनीयम् । न च विनिगम- त् । अस्तु वा गुणकर्मत्वं न तावता किंचिदनिष्टमित्येतन्मनसि निधा. याह संक्षेप इति । पचतीत्युक्ते प्रतीयमानानां पाकतत्कृति तदा श्रयादीनां मध्ये यावतामभिधाविषयत्वं निर्णीत सेष्वेवायं म. कृत्यों ऽयं प्रत्ययार्थ इति विभागः परेण कार्यः, वर्णाः त्मक वर्णाभिव्यक्तं वा ऽखण्डं पदमाभिधायकमिति सिद्धा. न्तस्मरणेन वा गवादिपदे न्यायमते गोवाधाभिधायित्वमिव विशेष. णविशेष्यभावापन्नं तावदर्थाभिधायित्वं तत्रागीकृत्य न कार्यः । उभा यथाऽपि कर्तुरभिधेयत्वं निराकर्तुं नाख्यातपदाभिधाविषयत्वमिति भूमिकामाह सइत्यादिना । आख्यातस्य पचतीत्यादेः प. दस्य । सत्यमाक्षेपलभ्यस्य नाभिधेयत्वं कर्नाऽपि भावनाक्षेपस- म्भषेन विनिगमनाविरहातु कर्तक्रिययोरभिधेयत्वं घूमो ऽत आह नचेति । कर्तेत्यनन्तरं त्वया ऽऽख्यातपदबाध्यत्वेन स्वी कार्य इति शेषः । 'वः नः' इत्यादिपदाष्टान्तेन पऐइयादिष्टा-