पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. प्रासङ्गिकः कर्तुराख्यातवाच्यत्वपूर्वपक्षः । "क्रियावाचकमपि सद् भावार्थत्वात् क्रियाया भावप्रधानमुच्यते" इति, अतः कथमेतत्स्मृतिवशेन प्रकृत्यर्थक्रियाया विशेष्यतारूप- प्राधान्यसिद्धिरिति चेत् न । आख्यातार्थक्रियावादिभिरपि य- जेत स्वर्गकामो, वेतनकामः पचेद् इत्यादौ क्रियाया भावार्थ- स्वानङ्गीकारात् । अमुमेव वा ऽस्वरसं मनसि निधाय व्याख्यान्त- रमकारि व्याख्यातृभिः- "एके पुनर्भावप्रधानमिति प्रकृत्यर्थप्रधानमिति मन्यन्ते । प्रकृत्यर्थविशेषणं हि प्रत्ययार्थादयः । भावः कर्म क्रिया धात्वर्थ इत्यनान्तरम् । स यत्र प्रधानं गुणभूतानि साधनानि तदिदं भा. वप्रधानम्"इति । यच्च व्याख्यान्तरम्-"अपरे पुन वकालकारकसंख्याश्चत्वार एवार्था आख्यातस्य तेषां भावप्रधानता भवति अतो भावप्रधानमा- ख्यातम्" इति, तत्रापि कर्तारं प्रति भावना प्राधान्येन भासत इति निर्विवादम् । तद्युक्तं क्रियारूपाया भावनाया धात्वर्थभूताया आख्या- तार्थ प्रति प्राधान्यम् । किञ्चाख्यातार्थस्य कर्तुः क्रियां प्रति प्राधा- न्ये तदभिन्नस्य प्रथमान्तार्थस्य न क्रिया प्रति गुणभावः स्यात् । भवत्वेवम्, स्वीकुर्वन्त्येव हि नैयायिका आख्यातार्थक्रियाप्रकारक- प्रथमान्तार्थविशेष्यकं बोधमिति चेत् न । “तद्यत्रोभे भावप्रधाने भवतः' इति वचोविरोधात् । 'पश्य मृगो धावति' इत्यादौ धाव. नक्रियाविशिष्टस्य मृगस्य पश्यतिक्रियायां कर्मत्वापचौ मृगमिति द्वितीयां विना महाभाष्योक्ताया आख्यातद्वयकवाक्या. ताया असम्भवापत्तेश्च । नामार्थानो कारकद्वारैव क्रियान्वयात् । सम्भवति तु क्रियायाः कारकव्यवधानमन्तरेणापि क्रियान्व- यः, भुत्का बजतीति दर्शनात् । तस्मादपि क्रियायां प्राधान्यम् । एवं च क राख्यातवाच्यत्वे प्रयाजादीनां गुणकर्मचापत्तिनिरस्ता। स्वगुणत्वेन कर्तारं स्वीकुर्वत्याः क्रियायास्तं प्रति गुणत्वासम्भवा-