पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३८ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- नन्वेवमपि क्रियाश्रयस्य कर्तृत्वात्तत्साध्यस्य कर्मत्वादा. कृतिन्यायेन क्रियाया एव वाच्यत्वं युक्तम्, कर्तृकर्मो भयवा- चिनश्चाख्यातस्य कथं व्यवस्थयोभयबोधकत्वमिति चेत । शृणु । क्रिया तावद्धातुनैवाभिधीयते, "भूवादयो धातवः' इति सूत्रेण भूप्रभृतयो वासदृशा इति लक्षणपरेण क्रियावाचित्वे सति गणपठितत्वस्य धातुलक्षणतयोक्तः, किं कृतं भुक्तमित्या. दिप्रयोगाच्च, स्वार्थव्यापारानधिकरणत्तिफलवाचित्वेन तद्- तिफलबाचित्वेन धातुषु सकर्मकत्वाकर्मकत्व व्यवहारोपपत्तेश्च । अत एव फलमपि धातुवाच्यम् । आख्यातेन च निष्कृष्ट शत्यात्मकमाश्रयत्वमात्रमभिधीयते । तथा द्वितीयातृतीयाभ्याम् । आख्यातार्थे च प्रथमान्तपदार्थस्य अभेदेन विशेषणत्वम्, आख्या- तेन च शबादिगृहीततात्पर्यकेण बोधिताश्रयत्वस्य धात्वर्थव्यापार प्रति विशेषणत्वे सति फलं प्रति द्वितीयार्थस्य विशेषणत्वेनान्वयः। यगादिगृहीततात्पर्य केण तु बोधितस्य फलं प्रत्यन्वये व्यापार प्रति तृतीयार्थस्यान्वयः । ततश्च देवदत्त ओदनं पचति, देवदत्तेनौ. दनः पच्यत इत्युभयत्रापि ओदनाश्रयकविक्लित्यनुकूलदेवदत्ताश्र- यिका भावनेति बोधः । व्यापाराश्रयस्य च कर्तृत्वात्फलाश्रयस्य कर्मत्वात्तत्तद्विकरणवशेन व्यापाराश्रयं फलाश्रयं च बोधयतोः प- चति पच्यत इत्यनयोर्भवति व्यवस्थया कर्तृकर्मबोधकत्वम् । सम्भवति चैवं सति समानाभिधानश्रुत्या संख्यान्वयव्यवस्था. ऽपि । विशिष्टाभिधानाङ्गीकृतेश्च नाकृतिन्यायावतारः । नापि क- तित्वस्य शक्यतावच्छेदकत्वात्कृतीनां शक्यतावच्छेदकत्वगौर- वोपन्यासावसरः । न च पक्तेत्यादिवत्पचतीत्यादावपि प्रत्ययार्थ- कर्तृविशेष्यक एव बोध आश्रीयतामिति वाच्यम् । भावप्रधानमा- रूयातमिति विशेषस्मरणात् । ननु भावः पाकयागादिः, तदर्था क्रियाऽऽख्यातेनोच्यते इत्युक्तस्मृतेरर्थः । उक्तं हि निरुक्तव्याख्याने .. ..